SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ 'शृङ्गाराणि' शृङ्गारो - विभूषणादिभिर्मण्डनं स विद्यते येषां तानि शृङ्गाराणि, 'अभ्रादिभ्य' इत्यादि अप्रत्ययः, विभूपणादिकृतोदारश्टङ्गाराणीत्यर्थः, तानि च कदाचित् कस्यचिदमनोज्ञानि भवेयुः अत आह— 'मनोज्ञानि' खखोपभो ग्यदेवमनोविषयभावपेशलानि तानि लेशतोऽपि सम्भाव्यन्ते तत आह- 'मनोहराणि ' खखोपभोग्यस्य देवस्य मनो हरन्ति - आत्मवशं नयन्तीति मनोहराणि 'लिहादित्वादच्', तच मनोहरत्वं प्रथमसमापातमात्रभाव्यपि भवति तत आह - 'मनोरमाणि' मनः खखोपभोग्यदेवसम्बन्धि रमयन्ति - क्रीडयन्ति प्रतिक्षणमुत्तरोत्तरानुरागसम्पृक्तं जनयम्तीति मनोरमाणि तानि इत्थंभूतानि उत्तरवैक्रियाणि रूपाणि विकुर्वित्वा तेषां देवानामन्तिकं - समीपं प्रादुर्भवन्ति, 'तते ण' मित्यादि, ततः णमिति पूर्ववत्, ते देवास्ताभिरप्सरोभिः सार्द्ध कायपरिचारणं - मनुष्य इव मनुष्यस्त्रीभिः सर्वाङ्गीणकायक्लेशपूर्वकं मैथुनोपसेवनं कुर्वन्ति, एवमेव तेषां वेदोपशान्तिभावात् । तथा चामुमेवार्थे दृष्टान्तेन द्रढयति' से जहाणामए' इत्यादि 'से' इति अथशब्दार्थः, स चात्र वाक्योपन्यासे, यथा नाम 'ते' विवक्षिताः शीताः पुद्गलाः शीतं - शीतयोनिकं प्राणिनं प्राप्य 'शीतमेव' शीतत्वमेवातिव्रज्य - अतिशयेन गत्वा तिष्ठन्ति, किमुक्तं भवति ? - विशेषतः शीतीभूतस्य शीतयोनिकस्य प्राणिनः सुखित्वायोपकल्पन्ते, उष्णा वा पुद्गला उष्णयोनिकं प्राणिनं प्राप्य 'उष्णमेव ' उष्णत्वमेवातित्रज्य - अतिशयेन गत्वा तिष्ठन्ति, विशेषतः स्वरूपलाभसम्पत्त्या तस्य सुखवायोपतिष्ठन्ते इति भावः, 'एवमेव' अनेनैव प्रकारेण तैर्देवैस्ताभिरप्सरोभिः सार्द्धं यथोक्तरूपे कायपरिचारणे कृते Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy