________________
३४ प्रवीचारपदंसू. ३२३-३२७
प्रज्ञापना- । उपजायन्ते, महाशुक्रसहस्रारेषु कल्पेषु देवाः 'शब्दपरिचारकाः' शब्देन-शब्दमात्रश्रवणेन परिचारो येषां से तथा, ते या: मल
|हि इच्छाविषयीकृतदेवीसत्कगीतहसितसविकारभाषितनूपुरादिध्वनिश्रवणमात्रत एवं कायप्रवीचारादनन्तगुणसुखं यवृत्ती.
उपभुजते तावन्मात्रेणेव तेषां वेद उपशान्तिमति, आनतप्राणतारणाच्युतेषु कल्पेषु देवा 'मनःपरिचारकाः' मनसा॥५४९॥
मनोभवविकारोपबृंहितपरस्परोच्चावचमनःसङ्कल्पेन परिचारो मैथुनोपसेवनं येषां ते तथा, ते हि परस्परोच्चावचमनःसङ्कल्पमात्रेणेव कायप्रवीचारादनन्तगुणं सुखमवामुवन्ति, तृप्ताश्च तावन्मात्रेणैवोपजायन्ते, अवेयकानुत्तरोपपतिदेवा 'अपरिचारका' न विद्यते परिचारो-मैथुनोपसेवनं मनसाऽपि येषां ते तथा, तेषां प्रतनुमोहोदयतया प्रशमसुखांतीनत्वात् , यद्येवं कथं न ते ब्रह्मचारिणः १, उच्यते, चारित्रपरिणामाभावात् , 'से तेणटेण'मित्यादि निगमनवाक्यं, तत्र ये कायपरिचारका देवास्तेषां कायप्रविचारं विभावयिषुरिदमाह-'तत्थ 'मित्यादि, तत्र-तेषु कायपरि|चारकादिषु देवेषु मध्ये येते पूर्वमुक्ताः कायपरिचारका भवनपतिव्यन्तरज्योतिष्कसौधर्मेशानदेवास्तेषां णमिति पूर्ववत् इच्छामनः-कायपरिचारेच्छाप्रधान मनः समुत्पद्यते, केनोल्लेखेन समुत्पद्यते ?-इच्छामः-अभिलषामः णमिति पूर्ववत् अप्सरोभिः सार्द्ध कायपरिचारं कर्तुमिति, 'तए ण'मित्यादि, ततस्तैर्देवैरेवमुक्तेन प्रकारेण कायपरिचारे मनसि कृते सति क्षिप्रमेव-शीघ्रमेव ता अप्सरसः खखोपभोग्यदेवाभिप्रायमवेत्य परिचाराभिलाषुकतया उत्तरवैकियाणि रूपाणि विकुर्वन्तीति सम्बन्धः, कथंभूतानीत्यत आह-उदाराणि-स्फाराणि न तु हीनावयवानि तानि अपि
Pann
॥५४९॥
dan Education International
For Personal & Private Use Only
www.janelibrary.org