SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ न्द्रयोललोकलान्तकयोमहाशक्रसहस्रारयोरानतादिचतुषु कल्पेषु देवा अदेवीकाः, तत्र देवीनामुत्पादाभावात् , अथ च । सपरिचाराः-परिचारणासहिताः, सौधर्मशानगतदेवीभिः सह यथाक्रम स्पर्शरूपशब्दमनःप्रवीचारभावात् , वेयकानुत्तरोपपातिनो देवा अदेवीकाः, देवीनां तत्रोत्पादाभावात् अपरिचाराः-अप्रवीचाराः, अत्यन्तमन्दपुरुषवेदोदयतया मनसापि प्रवीचारासम्भवात् ,न पुनस्ते देवाः सदेवीका अपरीचाराः,तथाभवस्खाभाब्यात् , 'से एएण'मित्यादि निगमनवाक्यं । देवाः सदेवीकाः सपरिचारा इत्युक्तं, तत्र परिचारणामेव जिज्ञासुः पृच्छति-'कइविहाण'मित्यादि,सुगम, भगवानाह-'गौतमें'त्यादि गतार्थ, नवरं कायपरिचारगा' इति कायेन-शरीरेण मनुष्यस्त्रीपुंसानामिव परिचारो-मैथुनोपसेवनं येषां ते कायपरिचारकाः, किमुक्तं भवति?-भवनपत्यादय ईशानदेवलोकदेवपर्यन्ताः सक्लिष्टोदयपुरुषवेदकर्मप्रभावतो मनुष्यवत् मैथुनसुखप्रलीयमानाः सर्वाङ्गीणं कायक्लेशजं संस्पर्शसुखमवाप्य प्रीतिमासादयन्ति नान्यथेति, सनत्कुमारमाहेन्द्रयोः कल्पयोर्देवाः स्पर्शपरिचारकाः, स्पर्शन-स्तनभुजोरुजघनादिगात्रसंस्पर्शेन परिचारः-प्रवीचारो येषां ते तथा, ते हि यदा प्रवीचारमभिलषन्ति तदा प्रवीचाराभिलाषुकतया प्रत्यासन्नभूतानां देवीनां स्तनाद्यवयवान् संस्पृशन्ति, तावन्मात्रेणैव तेषां कायप्रवीचारादनन्तगुणं सुखं वेदोपशान्तिश्चोपजायते, ब्रह्मलोकलान्तकयोः कल्पयोर्देवा 'रूपपरिचारका' रूपेण-रूपमात्रदर्शनेन परिचारो-मैथुनोपसेवनं येषां ते तथा, ते हि सुरसुन्दरीणां मनोभवराजास्थानीयं दिव्यमुन्मादजनक रूपमुपलभ्य कायप्रवीचारादनन्तगुणं सुरतसुखमासादयन्ति, तावन्मात्रेणैवोपशान्तवेदा कायप्रवीचारादनन्तगोपसेवनं येषां ते तथा, तावन्मात्रेणैवोपशान्तवा Jain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy