SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ हर्ताभ्यधिकानीति तत्सप्तमनरकपृथिव्यपेक्षया द्रष्टव्यं, तत्रया हि नैरयिकाः कृष्णलेश्याकाः, तेषां च स्थितिरुत्कृष्टान त्रयस्त्रिंशत्सागरोपमाणि, यत्तु पूर्वोत्तरभवगते यथाक्रमं चरमाद्य अन्तर्मुहूर्ते ते द्वे अप्येकं, अन्तर्मुहूर्तस्यासङ्ख्यातभेदभिन्नत्वात् , तथा चान्यत्राप्युक्तम्-"मुहुत्तद्धं तु जहन्ना तित्तीसं सागरा मुहुत्तहिया। उकोसा होइ ठिई नायचा कण्हलेसाए ॥१॥ [मुहूर्त्ताध तु जघन्या त्रयस्त्रिंशत्सागरोपमाण्युत्कृष्टा । मुहूर्त्ताधिका भवति स्थितिः कृष्णलेश्यायाः ॥१॥] अत्र 'मुहुत्तहिया' इति चूर्णिकृता व्याख्यातमन्तर्मुहूर्त्ताधिकेति, नीललेश्यासूत्रे यानि दश सागरोपमाणि पल्योपमासङ्ख्येयभागाभ्यधिकान्युक्तानि तानि पञ्चमपृथिव्यपेक्षया वेदितव्यानि, तत्र हि प्रथमप्रस्तटे नीलले 'पंचमियाए मीसा' [पञ्चम्यां मिश्रा] इति वचनात् , तस्मिंश्च प्रथमप्रस्तटे स्थितिरुत्कर्षत एतावती, ये तु पूर्व भवगते अन्तर्मुहूर्ते ते पल्योपमासङ्ख्येयभागे एवान्तर्गते इति न पृथग्विवक्षिते, एवमुत्तरत्रापि द्रष्टव्यं, कापोतलेश्या-18 सूत्रे त्रीणि सागरोपमाणि पल्योपमासङ्ख्येयभागाभ्यधिकानि तृतीयनरकपृथिव्यपेक्षयाऽवसातव्यानि, तृतीयपृथिव्यामपि प्रथमप्रस्तटे कापोतलेश्याया भावात् , 'तईयाए मीसिया' [तृतीयस्यां मिश्रा] इति वचनात् तत्र चोत्कृष्टस्थितेरेतावत्याः सम्भवात्, तेजोलेश्यासूत्रे द्वे सागरोपमे पल्योपमासङ्ख्येयभागाभ्यधिके ईशानदेवलोकदेवापेक्षया वेदितव्ये, ते हि तेजोलेश्याका उत्कर्षत एतावतूस्थितिकाः, पद्मलेश्यासूत्रे दश सागरोपमाणि अन्तर्मुहूताभ्यधिकानि ब्रह्मलोकापेक्षया भावनीयानि, तत्र हि देवानां स्थितिरुत्कृष्टा दश सागरोपमाणि लेश्या च पद्मलेश्या, ये च sekceetstreeeeeeee Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy