SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ वाक्यालङ्कारे, भदन्त ! - परमकल्याणयोगिन् ! परमसुखयोगिन् ! वा अनन्तरं - उपपातक्षेत्रप्राप्तिसमयमेव आहारयन्तीत्यनन्तरागताहाराः, 'ततो निवत्तणया' इति ततः - अनन्तराहारग्रहणादारभ्य क्रमेण शरीरस्येति गम्यते निवर्त्तना - निष्पत्तिर्भवति, 'ततो परियाइणया' इति ततः - शरीरनिष्पत्तेरारभ्य पर्यादानं - यथायोगमङ्गप्रत्यङ्गैर्लोमाहारादिना समन्ततः पुद्गलादानं 'ततो परिणामणया' इति ततः पुद्गलादानादनन्तरं तेषां पुद्गलानां परिणामनंइन्द्रियादिरूपतया परिणत्यापादनं 'ततो परियारणया' इति ततः - इन्द्रियादिरूपतया परिणत्यापादनादूर्ध्वं परिचारणा- यथायोगं शब्दादिविषयोपभोगः, ततः पश्चात् विकुर्वणा - वैक्रियलब्धिवशात् विक्रिया नानारूपा १, एव मुक्ते भगवानाह - 'हंता ! गोयमे' त्यादि, हन्तेत्यभ्यनुज्ञार्थ, हंता ! गौतम ! नैरयिका अनन्तराहारा इत्यादि, तदेवं यथा नैरयिकाणामनन्तराहारादिवक्तव्यतोक्ता तथा असुरकुमारादीनामपि स्तनितकुमारपर्यवसानानां वक्तव्या, नवरं तेषां पूर्व विकुर्वणं पश्चात् परिचारणा, ते हि विशिष्टशब्दाद्युपभोगवाञ्छायां पूर्वमिष्टं वैक्रियं रूपं कुर्वन्ति पश्चात् | शब्दाद्युपभोगमित्येष नियमः, शेषास्तु शब्दाद्युपभोगसम्पत्तौ सत्यां हर्षवशात् विशिष्टतरशब्दाद्युपभोगवाञ्छातः अन्यतो वा कुतश्चित्कारणात् विकुर्वते, ततस्तेषां पूर्व प्रवीचारणा पश्चाद्विकुर्वणेति, पृथिवीकायविषये प्रश्नसूत्रं तथैव उत्तरसूत्रे तावद् वक्तव्यं यावत् परिचारणा, तेषामपि स्पर्शोपभोगसम्भवात्, 'नो चेव णं विउवणय'त्ति न चैव तेषां विकुर्वणा वाच्या, वैक्रियलब्धेरसम्भवात्, 'एव' मित्यादि, एवं - पृथिवीकायिकवत् अप्कायादयो वातकायवजस्ता Jain Education International For Personal & Private Use Only www.jairelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy