SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ | तद्यथा-अन्तगतो मध्यगतश्च, अथान्तगत इति कः शब्दार्थः ?, उच्यते, इह पूर्वाचार्यप्रदर्शितमर्थत्रयं अन्ते आत्मप्रदेशानां पर्यन्ते गतः-स्थितोऽन्तगतः, काऽत्र भावनेति चेत् , उच्यते, इहावधिरुत्पद्यमानः कोऽपि स्पर्द्धकरू|पतयोत्पद्यते, स्पर्द्धकं च नामावधिज्ञानप्रभाया गवाक्षजालादिद्वारविनिर्गतप्रदीपप्रभाया इव प्रतिनियतो विच्छेदविशेषः, तथा चाह जिनभद्रगणिक्षमाश्रमणः खोपज्ञभाष्यटीकायां-"स्पर्द्धकमवधिविच्छेदविशेष" इति, तानि च एकजीवस्थासङ्ख्येयानि संख्येयानि च भवन्ति, यत उक्तं मूलावश्यकप्रथमपीठिकायाम्-'फडाय असंखेजा संखिजा यावि |एगजीवस्स' इति, [स्पर्धकान्यसंख्येयानि संख्येयानि चापि एकजीवस्य ] तानि च विचित्ररूपाणि कानिचित्पर्यन्तवर्तिष्वात्मप्रदेशेषूत्पद्यन्ते, तत्रापि कानिचित्पुरतः कानिचित्पृष्ठतः कानिचिदधोभागे कानिचिदुपरितनभागे कानिचिन्मध्यवर्तिष्यात्मप्रदेशेष्वेवं योऽवधिरुपजायते स आत्मनः पर्यन्ते स्थित इतिकृत्वा अन्तगत इत्यभिधीयते, तैरेव पर्यन्तवर्तिभिरात्मप्रदेशैः साक्षादवबोधात्', अथवा औदारिकशरीरस्यान्ते गतः-स्थितोऽन्तगतः, औदारिकशरीरमधिकृत्य कदाचिदेकया दिशोपलम्भात् , इदमपि स्पर्द्धकरूपमवधिज्ञानं, अथवा सर्वेषामप्यात्मप्रदेशानां क्षयोपशमभावेऽपि औदारिकशरीरस्यान्ते कयाचिदेकया दिशा यदशादुपलभ्यते सोऽप्यन्तगतः, आह-यदि सर्वेषामप्यात्मप्रदेशानां क्षयोपशमस्ततः सर्वतः किं न पश्यति ?, उच्यते, एकदिशैव क्षयोपशमसम्भवात् , विचित्रो हि देशाद्यपेक्षया कर्मणां क्षयोपशमः, ततः सर्वेषामप्यात्मप्रदेशानामित्थंभूत एव खसामग्रीवशात् क्षयोपशमः संवृत्तो यदौदारिक cिeeeeeeeeeeeeeeee Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy