________________
तदेतदयुक्तं सम्यग्वस्तुतत्त्वापरिज्ञानात् संयतत्वमिह निरवद्येतरयोगप्रवृत्तिनिवृत्तिरूपमान्तर चारित्रपरिणामानुषत: मवगन्तव्यं, न शेषं न च तेषां कृतचतुर्विधाहारप्रत्याख्यानानामपि महात्रतान्यारोपयतां भवप्रत्ययादेव चरणपरिणाम उपजायते, स यचिन्त्यचिन्तामणिकल्पे मनुष्यभव एव, यदि परं कर्मक्षयोपशमाद् भवति, नान्यथा, अत एवायमतिदुर्लभो गीयते भगवद्भिः, अथ कथमवसीयते न तिरश्चां तथा चेष्टमानानामप्यान्तरश्चारित्रपरिणामः १, उच्यते, केवलज्ञानाद्यश्रवणात्, यदि हि तिरश्चामपि चरणपरिणामस्सम्भवेत् तत् क्वचित् कदाचित् कस्यचिदुत्कर्षतो भावतो मनःपर्यायज्ञानं केवलज्ञानं वा श्रूयेत, तयोश्चारित्रपरिणामनिबन्धनत्वात् न च श्रूयते, तस्मादवसीयते न तेषां चारित्रपरिणामः उक्तं च - " न महवयसन्भावेवि चरणपरिणामसंभवो तेसिं । न बहुगुणापि जओ केवलसंभूहपरिणामो ॥ १ ॥ " [न महात्रतसद्भावेऽपि चारित्रपरिणामसंभवस्तेषाम् । न बहुगुणानामपि यतः केवलसंभूतिप|रिणामः ॥ १ ॥ ] तद्भावाभावात् संयमपदरहिताः, शेषाः संसारस्था असंयता-असंयतपदसहिंता भवन्ति, न शेषपदसहिताः ॥ इति श्रीमलयगिरिविर० प्रज्ञा • संयमपदं द्वात्रिंशत्तमं समाप्तम् ॥ ३२ ॥
Jain Education International
For Personal & Private Use Only
wwww.jainelibrary.org