SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनायाः मल य० वृत्तौ . ॥ ५३५॥ चेत्, उच्यते, उक्तमिह संयमो नाम निरवद्येतरयोगप्रवृत्तिनिवृत्तिरूपः, ततः संयतादिपर्यायो योगाश्रयः सिद्धाश्च भगवन्तो योगातीताः शरीरमनसोऽभावादतस्त्रितयप्रतिषेधविषयाः, एवं च सामान्यतो जीवपदे चतुष्टयमपि घटते, तथा चाह - 'गोयमे'त्यादि, गौतम ! जीवाः संयता अपि साधूनां संयतत्वात्, असंयता अपि नैरयिकादीनामसंगतत्वात्, संयतासंयता अपि पञ्चेन्द्रियतिरश्चां मनुष्याणां च देशतः संयमस्य भावात्, नो संयतनो असंयतनो संयतासंयता अपि सिद्धानां त्रयस्यापि प्रतिषेधात्, चतुर्विंशतिदण्डकसूत्राणि सुगमानि अत्रैवं सङ्ग्रहणिगाथामाह - 'संयते' त्यादि, संयता असंयता मिश्रकाश्च - संयतासंयता जीवास्तथैव मनुष्याश्च, किमुक्तं भवति ? - जीवपदे मनुष्यपदे च एतानि त्रीण्यपि पदानि घटन्ते, नतु न घटन्ते इत्येवंपरमेतत् सूत्रं, अन्यथा जीवपदे त्रितयप्रतिषेधरूपं चतुर्थमपि पदं घटत एव, यथोक्तं प्राक्, तथा संयतरहिता उपलक्षणमेतत् त्रितयप्रतिषेधरहिताश्च तिर्यञ्चः - तिर्यक्पञ्चेन्द्रियाः, आह- कथं संयत पदरहितास्तिर्यक् पञ्चेन्द्रियाः १, यावता तेषामपि संयतत्वमुपपद्यते एव, तथाहि - संयतत्वं नाम निरवद्येतरयोगप्रवृत्तिनिवृत्त्यात्मकं, ते च निरवद्येतरयोगेषु प्रवृत्तिनिवृत्ती तिरश्चामपि सम्भवतः, यतश्चरमकालेऽपि चतुविधस्याप्याहारस्य प्रत्याख्यानं कृत्वा शुभेषु योगेषु वर्त्तमाना दृश्यन्ते, अन्यच्च सिद्धान्ते तत्र तत्र प्रदेशे महात्रतान्यप्यात्मन्यारोपयन्तः श्रूयन्ते, उक्तं च- "तिरियाणं चारितं निवारितं तह य अह पुणो तेसिं । सुबइ बहुयाणं चिय महबयारोवणं समए ॥ १ ॥ " [ तिरश्चां चारित्रं निवारितं तथा च पुनस्तेषां श्रूयतेऽथ महात्रतारोपणं बहूनां समये ॥ १॥ ] Jain Education International For Personal & Private Use Only ३२ संयम पदं सू. ३१६ ॥५३५|| www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy