________________
प्रज्ञापना
या: मल
य० वृत्तौ .
॥५३२॥
घनोदध्यादिवलया वेदितव्याः, ते हि सर्वासु दिक्षु विदिक्षु चेमां रत्नप्रभां परिक्षिप्य व्यवस्थितास्तैः, 'जं समय' मिति 'कालाध्वनोर्व्याप्ता' वित्यधिकरणभावेऽपि द्वितीया, ततोऽयमर्थः - यस्मिन् समये जानाति - आकारादिविशिष्टां परिच्छिनत्ति 'तं समयं 'ति तस्मिन् समये पश्यति - केवलदर्शनविषयीकरोति ?, भगवानाह - गौतम ! नायमर्थः समर्थो, नायमर्थो युक्त्युपपन्न इति भावः, तत्त्वमजानानः पृच्छति - 'से केणद्वेणं भंते !' इत्यादि, 'से' इति अथशब्दार्थे अथ केनार्थेन - कारणेन भदन्त ! एवं पूर्वोक्तेन प्रकारेणोच्यते, तमेव प्रकारं दर्शयति- 'केवली ण' मित्यादि, भगवानाह - 'गौतम' त्यादि, अस्यायं भावार्थ:- इह ज्ञानेन परिच्छिन्दन् जानातीत्युच्यते, दर्शनेन परिच्छिन्दन् पश्यतीति, ज्ञानं च 'से' तस्य भगवतः साकारमन्यथा ज्ञानत्वायोगात्, विशेषानभिगृण्हानो हि बोधो ज्ञानं, 'सविशेषं पुनर्ज्ञान' मिति वचनात्, दर्शनमनाकारं 'निर्विशेषं विशेषाणां, ग्रहो दर्शनमुच्यते' इति वचनात्, तत्र ज्ञानं च दर्शनं च जीवस्य खण्डशो नोपजायते, यथा कतिपयेषु प्रदेशेषु ज्ञानं कतिपयेषु प्रदेशेषु दर्शनं, तथाखाभाव्यात्, किन्तु यदा ज्ञानं तदा सामस्त्येन ज्ञानमेव यदा दर्शनं तदा सामस्त्येन दर्शनमेव, ज्ञानदर्शने च साकारानाकारतया परस्परं विरुद्धे, छायातपयोरिवेतरेतराभावनान्तरीयकत्वात्, ततो यस्मिन् समये जानाति तस्मिन् समये न पश्यति, यस्मिन् समये पश्यति तस्मिन् समये न जानाति, एतदेवाह - 'से एएणट्टेणं' इत्यादि, एतेन यदवादीद् वादी सिद्धसेनदिवाकरो यथा - 'केवली भगवान् युगपत् जानाति पश्यति चे 'ति, तदप्यपास्तमवगन्तव्यं, अनेन सूत्रेण साक्षात् युक्तिपूर्व
Jain Education International
For Personal & Private Use Only
३०पश्यत्तापदं आकारा
दिज्ञानदर्शनपृथ
क्त्वं सू.
३१४
॥५३२ ॥
www.jainelibrary.org