________________
| रत्नकाण्डं तदनन्तरं योजनसहस्रप्रमाणमेव वज्रकाण्डं तस्याप्यधो योजनसहस्रमानं वैडूर्यकाण्डमित्यादि, 'हेऊहिं'ति || हेतवः-उपपत्तयः, ताश्चेमाः-केन कारणेन रत्नप्रभेत्यभिधीयते ?, उच्यते, यस्मादस्याः रत्नमयं काण्डं तस्मात् रत्नप्रभा, रत्नानि प्रभा-खरूपं यस्याः सा रत्नप्रभेति व्युत्पत्तेरिति, 'उवमाहिं' इति उपमामिः, 'माङ्ग माने' अस्मादुपपूर्वात् उपमितं उपमा 'उपसर्गादात' इत्यङ्प्रत्ययः, ताश्चैवं-रत्नप्रभायां रत्नप्रभादीनि काण्डानि वर्णविभागेन कीदृशानि, पझरागेन्दुसदृशानि इत्यादि, 'दिटुंतेहिति दृष्टः अन्तः-परिच्छेदो विवक्षितसाध्यसाधनयोः सम्बन्ध-| स्थाविनाभावरूपस्य प्रमाणेन यत्र ते दृष्टान्तास्तैर्यथा घटः स्वगतैर्धम्मैः पृथुबुनोदराद्याकारादिरूपैरनुगतः परधर्मेभ्यश्च |पटादिगतेभ्यो व्यतिरिक्त उपलभ्यते इति पटादिभ्यः पृथक वस्त्वन्तरं तथैवैषाऽपि रत्नप्रभा खगतभेदैरनुपक्ता शकराप्रभादिभेदेभ्यश्च व्यतिरिक्तेति ताभ्यः पृथक् वस्त्वन्तरमित्यादि, 'वण्णेहिं ति शुक्लादिवर्णविमागेन तेषामेव उत्कषोंपकषेसङ्घयेयासंख्येयानन्तगुणविभागेन च, वर्णग्रहणमुपलक्षणं तेन गन्धरसस्पर्शविभागेन चेति द्रष्टव्यं, 'संठाणेहिति यानि तस्यां रत्नप्रभायां भवननारकादीनां संस्थानानि तद्यथा-ते णं भवणा बाहिं वट्टा अंतो चउरंसा अहे पुक्ख
रकण्णियासंठाणसंठिया' तथा 'ते णं नरया. अंतो वहा बाहिं चउरंसा अहे खुरप्पसंठाणसंठिया' इत्यादि, तथा लापमाणेहिंति प्रमाणानि, 'अहे'त्यादि परिमाणानि, यथा 'असीउत्तरजोयणसयसहस्सबाहल्ला रजुप्पमाणमेत्ता आ
यामविक्खंभेण'मित्यादि, 'पडोयारेहिंति प्रति-सर्वतः सामस्त्सेन अवतीर्यते-व्याप्यते यैस्ते प्रत्यवताराः, ते चात्र
0502020009
002020
Jain Education I
onal
For Personal & Private Use Only
www.jainelibrary.org