________________
पूर्वोक्तेन प्रकारेण जीवानामपि-जीवपदविशेषणसहितापि पश्यत्ता वक्तव्या, सा चैवम्-'जीवाणं भंते ! कतिविधा पासणया पं०१, गो! दुविहा पं०, तंजहा-सागारपासणया अणागारपासणया य, जीवाणं भंते ! सागारपासणया कतिविडा पं.' इत्यादि, तदेवं जीवानामपि सामान्यत उक्ता, सम्प्रति चतुर्विंशतिदण्डकक्रमेण वदति-'नेरइयाणं भंते ! इत्यादि, सुगमत्वात् उपयोगपदे प्रायो भावितत्वात् अनन्तरोक्तभावनानुसारेण खयं परिभावनीयं, तदेवं सा. मान्यतो विशेषतश्च जीवानां पश्यत्तोक्ता, सम्प्रति जीवानेव पश्यचाविशिष्टान् चिचिन्तयिषुराह-'जीवा णं भंते ! किं सागारपस्सी' इत्यादि, जीवाः-जीवनयुक्ताःप्राणधारिण इत्यर्थः, णमिति वाक्यालङ्कारे किमिति प्रश्ने साकारपश्यत्ता विद्यते येषां ते साकारपश्यत्तिनः, प्राकृतत्वात् साकारपस्सी इत्युक्तं, 'मणपजवनाणी केवलनाणी न वुच्चई' इत्यादि, नैरयिकाणां चारित्रप्रतिपत्तेरभावतो मनःपर्यवज्ञानकेवलज्ञानकेवलदर्शनानामभावात् ॥ इह किल छद्मस्थानां साकारोऽनाकारचोपयोगः क्रमेणोपजायमानो घटते, सकर्मकत्वात् , सकर्मकाणां बन्यतरस्योपयोगस्य वेलायामन्यतरस्य कर्मणाऽऽवृतत्वान्न घटते एवोपयोग इति, केवली तु घातिचतुष्टयक्षयाद् भवति, ततः संशयः-किं क्षीणज्ञानावरणदर्शनावरणत्वात् यस्मिन्नेव समये रत्नप्रभादिकं जानाति तस्मिन्नेव समये पश्यति उत जीवखाभाव्यात् क्रमेणेति ?, ततः पृच्छतिकेवली णं भंते ! इमं रयणप्पभं पुढवि आगारेहिं हेतूहिं उवमाहिं दिटुंतेहिं वण्णेहिं संठाणेहिं पमाणेहिं पडोयारेहिं जं समयं
keeeeeeeeeeeeeeee
Jain Education International
For Personal & Private Use Only
www.janelibrary.org