________________
प्रज्ञापनायाः मल
य० वृत्तौ .
॥३८५ ॥
अथ किमसांव्यवहारिकराशेरपि विनिर्गत्य सांव्यवहारिकराशावागच्छन्ति येनैवं प्ररूपणा क्रियते ?, उच्यते, आगच्छन्ति कथमेतदवसेयमिति चेत् ?, उच्यते, पूर्वाचार्योपदेशात्, तथा चाह दुष्षमान्धकारनिमन जिनप्रवचनप्रदीपो भगवान् जिनभद्रगणिक्षमाश्रमणः – “सिज्यंति जत्तिया किर इह संववहारजीवरासीओ । एंति अणाइवणस्सइरासीओ तत्तिया तंमि ॥ १ ॥” [सिध्यन्ति यावन्तः किल इह सांव्यवहारिकजीवराशेः । आयान्ति अनादिवन|स्पतिराशितस्तावन्तस्तस्मिन् ] ॥ १ ॥ अवेदको द्विधा - साद्यपर्यवसितः सादिसपर्यवसितश्च तत्र यः क्षपकश्रेणिं प्रतिपद्यावेदको भवति स साद्यपर्यवसितः, क्षपकश्रेणेः प्रतिपातासम्भवात् यस्तूपशमश्रेणिं प्रतिपद्यावेदको जायते स सादिसपर्यवसितः, स च जघन्येनैकं समयं कथमेकं समयमिति चेत् ?, उच्यते, यदा एकसमयमवेदको भूत्वा द्वितीयसमये पञ्चत्वमुपागच्छति तदा तस्मिन्नेव पञ्चत्वसमये देवेषूत्पन्नः पुरुषवेदोदयेन सवेदको भवति, तत एवं जघन्यत एक समयमवेदकः, उत्कर्षतोऽन्तर्मुहूर्त्त, परतोऽवश्यं श्रेणीतः प्रतिपाते वेदोदय सद्भावात् इति । गतं वेदद्वारमिदानीं कषायद्वारं, तत्रेदमादिसूत्रम् —
Jain Education International
सकसाई णं भंते ! सकसादित्ति काल० १, गो० ! सकसाती तिविधे पं० तं० – अणादीए वा अपज्जवसिते अणादीए वा सपञ्जवसिते सादीए वा सपज्जवसिते जाव अवडं पोग्गलपरियहं देणं, कोहकसाई णं भंते ! पुच्छा, गो० ! जह० उको० अंतोमुहुत्तं, एवं जाव माणमायकसाती, लोभकसाई णं भंते ! लोभ० पुच्छा, गो० ! जह० एकं समयं उको ०
For Personal & Private Use Only
१८ काय
स्थितिपदं
॥ ३८५ ॥
www.jainelibrary.org