SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ 19 देवकुर्वादिषु त्रिपल्योपमस्थितिषु स्त्रीमध्ये स्त्रीत्वेन समुत्पद्यते, ततो मृत्वा सौधर्मे देवलोके जघन्यस्थितिकासु | देवीषु मध्ये देवीत्वेनोपजायते, तदनन्तरं चावश्यं वेदान्तरमभिगच्छति इति, अमीषां पञ्चानामादेशानामन्यतमादेशसमीचीनतानिर्णयोऽतिशयज्ञानिभिः सर्वोत्कृष्टश्रुतलब्धिसम्पन्नैर्वा कर्तुं शक्यते, ते च भगवदार्यश्यामप्रतिपत्तौ नासीरन् , केवलं तत्कालापेक्षया ये पूर्वतमाः सूरयस्तत्कालभाविग्रन्थपौर्वापर्यपर्यालोचनया यथाखमति स्त्रीवेदस्य स्थिति प्ररूपितवन्तस्तेषां सर्वेषामपि प्रावचनिकसूरीणां मतानि भगवानार्यश्याम उपदिष्टवान् , तेऽपि च प्रावचनिकसूरयः खमतेन सूत्रं पठन्तो गौतमप्रश्नभगवन्निर्वचनरूपतया पठन्ति, ततस्तदवस्थान्येव सूत्राणि लिखता गोतमा !! इत्युक्तं, अन्यथा भगवति गौतमाय निर्देष्टरि न संशयकथनमुपपद्यते, भगवतः सकलसंशयातीतत्वात् , पुरुषवेदसूत्रे जघन्यतोऽन्तर्मुहूर्त्तमिति, यदा कश्चिदन्यवेदेभ्यो जीवेभ्य उद्धृत्य पुरुषवेदेषुत्पद्य तत्र चान्तर्मुहूर्त सर्वायुर्जीवित्वा | गत्यन्तरे अन्यवेदेषु मध्ये समुत्पद्यते तदा पुरुषवेदस्य जघन्यतोऽन्तर्मुहूर्तमवस्थानं लभ्यते, उत्कृष्टमानं कण्ठ्यं [[ग्रन्थाग्रं १००००], नपुंसकवेदसूत्रे जघन्यतः एकः समयः स्त्रीवेदस्येव भावनीयः, उत्कर्पतो वनस्पतिकालः, सच प्रागेवोक्तः, एतच सांव्यवहारिकजीवानधिकृत्य यदा चिन्ता क्रियते यदा त्वसांव्यवहारिकजीवानधिकृत्य चिन्ता क्रियते तदा द्विविधा नपुंसकवेदाद्धा, कांश्चिदधिकृत्यानाद्यपर्यवसाना, ये न जातुचिदपि सांव्यवहारिकराशौ निपतिष्यन्ति, कांश्चिदधिकृत्य पुनरनादिसपर्यवसाना, ये असांव्यवहारिकराशेरुद्वत्य सांव्यवहारिकराशावागमिष्यन्ति, 299999999092e Jain Education International For Personal & Private Use Only C anelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy