SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनाया: मल य० वृत्तौ . ॥ ३८४ ॥ दिषु पल्योपमत्रयस्थितिकासु स्त्रीषु मध्ये समुपपद्यते ततोऽधिकाऽपि स्त्रीवेदस्य स्थितिरवाप्यते, ततः किमित्येतावत्येवोपदिष्टा ?, तदयुक्तमभिप्रायापरिज्ञानात्, तथाहि - इह तावद्देवीभ्यश्युत्वा असङ्ख्येयवर्षायुष्का स्त्रीषु मध्ये नोत्पद्यते, देवयोनेश्युतानां असङ्ख्येयवर्षायुष्केषु मध्ये उत्पादप्रतिषेधात् नाप्यसङ्ख्येयवर्षायुष्का सती योषित् उत्कृष्टासु देवीषु जायते, यत उक्तं मूलटीकाकृता - " जत्तो असंखेज्जवासाज्या उक्कोसट्टिई न पावेइ” इति, ततो यथोक्तप्रमाणैवोत्कृष्टा स्थितिः स्त्रीवेदस्यावाप्यते, द्वितीयादेशवादिनः पुनरेवमाहुः - नारीषु तिरश्चीषु वा पूर्वकोट्यायुष्कासु मध्ये पञ्चषान् भवान् अनुभूय पूर्वप्रकारेणेशान देवलोकेषु वारद्वयमुत्कृष्टस्थितिकासु देवीषु मध्ये उत्पद्यमाना नियमतः परिगृहीताखेवोत्पद्यते नापरिगृहीतासु ततस्तन्मतेनोत्कृष्टमवस्थानं स्त्रीवेदस्याष्टादश पल्योपमानि पूर्वकोटिपृथक्त्वं च तृतीयादेशवादिनां तु सौधर्मदेवलोके परिगृहीतासु सप्तपल्योपमप्रमाणोत्कृष्टायुष्कासु वारद्वयं समुत्पद्यते, ततस्तन्मतेन चतुर्दश पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि स्त्रीवेदस्य स्थितिः, चतुर्थादेशवादिनां तु मतेन सौधर्मदेवलोके पञ्चाशत्पल्योपमप्रमाणोत्कृष्टायुष्काखपरिगृहीतदेवीष्वपि पूर्वप्रकारेण वारद्वयं देवीत्वेनोत्पद्यते, ततस्तन्मतेन पल्योपमशतं पूर्वकोटिपृथक्त्वाभ्यधिकमवाप्यते, पञ्चमादेशवादिनः पुनरिदमाहुः नानाभवभ्रमणद्वारेण यदि स्त्रीवेदस्योत्कृष्टमवस्थानं चिन्त्यते तर्हि पल्योपमपृथक्त्वमेव पूर्वकोटीपृथक्त्वाभ्यधिकं प्राप्यते न ततोऽधिकं कथमेतदिति चेत् ?, उच्यते, नारीषु तिरश्रीषु वा पूर्व कोट्यायुष्कासु मध्ये सप्त भवाननुभूयाष्टमभवे Jain Education International For Personal & Private Use Only १८ कायस्थितिपदं ॥ ३८४ ॥ www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy