SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ विशेषण प्रतिपत्तव्यः, उभयपONTयकानां साकारोपयोगी भते!' इत्यादि, नैरयिका हि द्विविधा भवन्ति-सम्यग्दृष्टयो मिथ्यादृष्टयश्च, अवधिरपि तेषां भवप्रत्ययोऽवश्यमुपजायते, | "भवप्रत्ययो नारकदेवाना' (तत्त्वा० अ० १ सू०२२) मिति वचनात् , तत्र सम्यग्दृष्टीनां मतिज्ञानश्रुतज्ञानावधिज्ञानानि मिथ्यादृष्टीनां मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानानीति सामान्यतो नैरयिकाणां षड्विधः साकारोपयोगः, अनाकारोपयोगस्त्रिविधस्तद्यथा-चक्षुर्दर्शनं अचक्षुर्दर्शनमवधिदर्शनं च, एष च त्रिविधोऽप्यनाकारोपयोगः सम्यग्दृशां मिथ्यादृशां चाविशेषेण प्रतिपत्तव्यः, उभयेषामप्यवधिदर्शनस्य सूत्रे प्रतिपादितत्वात् , एवमसुरकुमारादीनां स्तनितकुमारपर्यवसानानां भवनपतीनामप्यवसेयं, पृथिवीकायिकानां साकारोपयोगो द्विविधस्तद्यथा-मत्यज्ञानं श्रुताज्ञानं च, अनाकारोपयोग एकोऽचक्षुदर्शनरूपः, शेषोपयोगानां तेषामसम्भवात् , सम्यग्दर्शनादिलब्धिविकलत्वात् , एवमसेजोवायुवनस्पतीनामपि वेदितव्यं, द्वीन्द्रियाणां साकारोपयोगश्चतुर्विधः, तद्यथा-मतिज्ञानं श्रुतज्ञानं मत्यज्ञानं श्रुताज्ञान, तत्रापर्याप्सावस्थायां केषांचित् सासादनभावमासादयतां मतिज्ञानश्रुतज्ञाने शेषाणां तु मत्यज्ञानश्रुताज्ञाने, अना कारोपयोगस्त्वेकोऽचक्षुर्दर्शनरूपः, शेषोपयोगाणां तेषामसम्भवात् , एवं त्रीन्द्रियाणामपि, चतुरिन्द्रियाणामप्येवं, IS नवरमनाकारोपयोगो द्विविधः चक्षुर्दर्शनमचक्षुर्दर्शनं च, पञ्चेन्द्रियतिरश्चां साकारोपयोगः षड्विधस्तद्यथा-मतिज्ञानं श्रुतज्ञानमवधिज्ञानं मत्यज्ञानं श्रुताज्ञानं विभङ्गज्ञानं, अनाकारोपयोगस्त्रिविधस्तद्यथा-चक्षुर्दर्शनं अचक्षुर्दर्शनं अवधिदर्शनं च, अवधिद्विकस्यापि केषुचित्तेषु सम्भवात् , मनुष्याणां यथासम्भवमष्टावपि साकारोपयोगाश्चत्वारोऽप्यनाकारो लिब्धिविकलत्वात् , Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy