SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापना या: मलय० वृत्तौ. ॥५२७ ॥ विपरीतो भङ्गः - परिच्छित्तिप्रकारो यस्य तत् विभङ्गं, तच्च तत् ज्ञानं च विभङ्गज्ञानं, सर्वत्रापि च साकारोपयोगशब्देन विशेषण समासः । अनाकारोपयोगभेदानभिधित्सुराह - 'अणागारोवओगे णं भंते !' इत्यादि, तत्र चक्षुषा - चक्षुरिन्द्रियेण दर्शनं - रूपसामान्यग्रहणलक्षणं चक्षुर्दर्शनं तच्च तत् अनाकारोपयोगः चक्षुर्दर्शनाना कारोपयोगः, अचक्षुषा - चक्षुर्वर्जशेषेन्द्रियमनोभिर्दर्शनं-खखविषये सामान्यग्रहणमचक्षुर्दर्शनं, ततोऽनाकारोपयोग शब्देन विशेषणसमासः, एवमुत्तरत्रापि, अवधिरेव दर्शनं - सामान्यग्रहणमवधिदर्शनं, केवलमेव सकलजगद्भाविस मस्तवस्तुसामान्यपरिच्छेदरूपं दर्शनं केवलदर्शनं, अथ मनः पर्यायदर्शनमपि कस्मान्न भवति येन पञ्चमोऽनाकारोपयोगो न भवतीति चेत् ?, उच्यते, मनःपर्यायविषयं हि ज्ञानं मनसः पर्यायानेव विविक्तान् गृहदुपजायते, पर्यायाश्च विशेषाः, विशेषालम्बनं च ज्ञानं ज्ञानमेक न दर्शनमिति मनःपर्यायदर्शनाभावस्तदभावाच्च पञ्चमानाकारोपयोगासम्भव इति । ' एवं जीवाण' मित्यादि, एवं निर्विशेषणोपयोगवत् जीवानामप्युपयोगो द्विविधः प्रज्ञप्तो भणितव्यः, तत्रापि साकारोपयोगोऽष्टविधोऽनाकारोपयोगश्चतुर्विधः, एतदुक्तं भवति-यथा प्राक् जीवपदरहितमुपयोगसूत्रं सामान्यत उक्तं तथा जीवपदसहितमपि भणितव्यं, तद्यथा- 'जीवाणं भंते ! कतिविधे उवओगे पं० १, गो० ! दुविधे उवओगे पं० तं - सागारोवओगे य अणागारोवओगे य, जीवाणं भंते ! सागारोवओगे कतिविधे पं० १, गो० ! अट्ठविधे पं० तं०' इत्यादि, तदेवं सामान्यतो जीवानामुपयोगश्चिन्तितः, सम्प्रति चतुर्विंशतिदण्डकक्रमेण नैरयिकादीनां चिन्तयन्नाह - 'नेरइयाणं Jain Education International For Personal & Private Use Only २९ उपयोगपदे सूत्रं ३१२ ॥५२७॥ www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy