________________
ब्दोऽधः शब्दार्थः, अब - अधो विस्तृतं वस्तु धीयते - परिच्छिद्यतेऽनेनेत्यवधिः, यद्वा अवधिः - मर्यादा रूपित्रेव | द्रव्येषु परिच्छेदकतया प्रवृत्तिरूपा तदुपलक्षितं ज्ञानमप्यवधिः, अवधिश्चासौ ज्ञानं चावधिज्ञानं, तथा परिः - सर्वतो भावे अवनं अवः, 'तुदादिभ्योऽनुका' वित्यधिकारे 'अकितौ चेत्यकारप्रत्ययः, अवनं गमनमिति पर्यायाः, परि अवः पर्यवः, मनसि मनसो वा पर्यवः मनः पर्यवः, सर्वतस्तत्परिच्छेद इत्यर्थः, पाठान्तरं पर्यय इति, तत्र पर्ययणं पर्ययः, भावेऽल्प्रत्ययः, मनसि मनसो वा पर्ययः मनः पर्ययः, सर्वतस्तत्परिच्छेद इत्यर्थः, स चासौ ज्ञानं च मनःपर्यवज्ञानं मन:पर्ययज्ञानं वा, अथवा मनःपर्यायेति पाठान्तरं तत्र मनांसि पर्येति — सर्वात्मना परिच्छिनत्ति मनःपर्यायं, 'कर्मणोऽण्' मनःपर्यायं च तत् ज्ञानं च मनः पर्यायज्ञानं, यदिवा मनसः पर्यायाः मनः पर्यायाः, पर्याया धर्मा बाह्यवस्त्वा लोचनप्रकारा इत्यनर्थान्तरं तेषु तेषां वा सम्बन्धि ज्ञानं मनःपर्यायज्ञानं, इदं चार्द्धतृतीयद्वीपसमुद्रान्तर्वर्त्तिसंज्ञिमनोगत द्रव्यालम्बनं, तथा केवलं एकं मत्यादिज्ञाननिरपेक्षत्वात्, 'नटुंमि उ छाउमत्थिए नाणे' [ नष्टे तु छास्थिके ज्ञाने ] इति वचनात् शुद्धं वा केवलं तदावरणमलकलङ्कविगमात् सकलं वा केवलं प्रथमत एवाशेषतदावरणविगमतः सम्पूर्णोत्पत्तेः असाधारणं वा केवलमनन्यसदृशत्वात् अनन्तं या केवलं ज्ञेयानन्तत्वात्, केवलं च तत् ज्ञानं च केवलज्ञानं, तथा मतिश्रुतावधय एव यदा मिथ्यात्वकलुषिता भवन्ति तदा यथाक्रमं मत्यज्ञानथुताज्ञानविभङ्गज्ञानव्यपदेशालभन्ते, उक्तं च- “आद्यत्रयमज्ञानमपि भवति मिथ्यात्वसंयुक्त" मिति, 'विभङ्ग' इति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org