________________
प्रज्ञापनायाः मल
य० वृत्तौ .
॥५२६॥
यत्र सोऽनाकारः स चासावुपयोगश्च अनाकारोपयोगः, यस्तु वस्तुनः सामान्यरूपतया परिच्छेदः सोऽनाकारोपयोगः स्कन्धावारोपयोगवदित्यर्थः, असावपि छद्मस्थानामान्तर्मुहूर्त्तिकः परमनाकारोपयोगकालात् साकारोपयोगकालः सङ्ख्येयगुणः प्रतिपत्तव्यः, पर्यायपरिच्छेदकतया चिरकाललगनात् छद्मस्थानां तथास्वाभाव्यात्, केवलिनां त्वनाकारोऽप्युपयोग एकसामयिकः, चशब्दौ खगतानेकभेदसूचकौ, तत्र साकारोपयोगभेदानभिधित्सुरिदमाह'सागारोवओगे णं भंते !' इति, अर्थाभिमुखो नियतः - प्रतिनियतखरूपो बोधो - बोधविशेषो अभिनिबोधः अभिनिबोध एव आभिनिबोधिकं, अभिनिबोधशब्दस्य विनयादिपाठाभ्युपगमात् 'विनयादिभ्य' इत्यनेन खार्थे इकण् प्रत्ययः, 'अतिवर्त्तन्ते खार्थे प्रत्ययकाः प्रकृतिलिङ्गवचनानी' तिवचनादत्र नपुंसकता, यथा विनय एवं वैनयिकमित्यत्र, अथवा अभिनिबुध्यतेऽस्मादस्मिन्वेति अभिनिबोधः - तदावरणकर्मक्षयोपशमस्तेन निर्वृत्तमाभिनिबोधिकं तथ तज्ज्ञानं च आभिनिवोधिकंज्ञानं, स च इन्द्रियमनोनिमित्तो योग्यदेशावस्थितवस्तुविषयः स्फुटप्रतिभासो बोधवि. | शेष इत्यर्थः, स चासौ साकारोपयोगश्च आभिनिबोधिकज्ञानसाकारोपयोगः, एवं सर्वत्रापि समासः कर्त्तव्यः, तथा श्रवणं श्रुतं वाच्यवाचकभावपुरस्सरीकारेण शब्दसं स्पृष्टार्थग्रहणहेतुरुपलब्धिविशेषः, एवमाकारं वस्तु घटशब्दवाच्यं जलधारणाद्यर्थक्रियासमर्थमित्यादिरूपतया प्रधानीकृतः समानपरिणामः शब्दार्थ पर्यालोचनानुसारी इन्द्रियमनोनिमितोsवगमविशेष इत्यर्थः श्रुतं च तत् ज्ञानं च श्रुतज्ञानं, ततो भूयः साकारोपयोगशब्देन विशेषणसमासः, तथाऽवश
Jain Education International
For Personal & Private Use Only
२९ उपयोगदे
सूत्रं ३१२
॥५२६ ॥
www.jainelibrary.org