SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ च सदा बहुत्वेन लभ्यमानत्वात् , भाषामनःपर्याप्त्यपर्याप्तकास्त्वेकेन्द्रियविकलेन्द्रिया न भवन्ति, किन्तु पञ्चेन्द्रिया | एव, येषां हि भाषामनःपर्याप्तिसम्भवोऽस्ति त एव तत्पर्याप्त्यपर्याप्तकाःप्रोच्यन्ते, न शेषा इति, ततस्तत्सूत्रे बहुवचने जीवपदे पञ्चेन्द्रियतिर्यग्योनिकपदे च भङ्गत्रिकं, पञ्चेन्द्रियतिर्यञ्चो हि सम्मूर्छिमाः सदैव बहवो लभ्यन्ते, ततो यावदद्याप्यन्यो विग्रहगत्यापन्नः पञ्चेन्द्रियतिर्यग् न लभ्यते तावदेष भङ्गः-सर्वेऽपि तावद् भवेयुराहारका इति १, एकस्मिन् तस्मिन् विग्रहगत्यापन्ने लभ्यमाने द्वितीयो भङ्गः-आहारकाश्चानाहारकश्चेति २, यदा तु विग्रहगत्यापन्ना अपि| बहवो लभ्यन्ते तदा तृतीयो भङ्गः-आहारकाश्चानाहारकाश्चेति ३, जीवपदेऽपि भङ्गत्रिकं एतदपेक्षया प्रत्येयं, नैर-18 यिकदेवमनुष्येषु प्रत्येकं षडू भङ्गाः, ते च प्रागेवोक्ताः, इह भव्यपदादारभ्य प्राय एकत्वेन बहुत्वेन च वैविक्त्येन सूत्राणि जीवादिदण्डकक्रमेण नोक्तानि ततो मा भून्मन्दमतीनां सम्मोह इति तद्विषयमतिदेशमाह-'सवपएसु एगत्ते'त्यादि, एते जीवादयो दण्डकाः सर्वपदेषु-सर्वेष्वपि पदेषु एकत्वेन बहुत्वेन च पृच्छया उपलक्षणमेतन्निवेचनेन भणितव्याः, किं सर्वत्राप्यविशेषेण कर्तव्याः १. नेत्याह-'जस्से'त्यादि, यस्य यदस्ति तस्य तत्पृच्छ्यते-तद्विषयं सूत्रं भण्यते, यस्य पुनः यन्नास्ति न तस्य तत्प्रष्टव्यं-न तद्विषयं तस्य सूत्रं वक्तव्यमिति भावः, कियडूरं यावदेवं कर्त्तव्यमिति शङ्कायां चरमदण्डकवक्तव्यतामुपदिशति-'जाव भासामणपजत्तीए अपजत्तएसु' इत्यादि, भाविताथै, इहा|धिकृतार्थभावनार्थमिमाः पूर्वाचार्यप्रतिपादिता गाथाः-"सिद्धेगिंदियसहिया जहिं तु जीवा अभंगयं तत्थ । सिद्धे Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy