SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ चतुरिन्द्रियतिर्यपञ्चेन्द्रिया आहारका एव वक्तव्याः, न त्वनाहारकाः, विग्रहगत्युत्तीर्णानामेवौदारिकशरीरसम्भवात, वैक्रियाहारकशरीरिणश्च सर्वेऽप्येकवचने बहुवचने चाहारका एव न त्वनाहारकाः, नवरं येषां वैक्रियमाहारक वा सम्भवति त एव वक्तव्या नान्ये, तत्र वैक्रियं नैरयिकभवनपतिवायुकायिकतिर्यपञ्चेन्द्रियमनुष्यव्यन्तरज्योतिकवैमानिकेषु आहारकं मनुष्यष्वेव, सूत्रोल्लेखश्चायं-'वेउवियसरीरी णं भंते ! जीवे किं आहारए अणाहारए ?, गोयमा ! आ० णो अणा०, वेउवियसरीरे णं भंते ! णेरइए कि आहारए अणाहारए ?, गो! आ० नो अणा.' इत्यादि. तैजसकामणशरीरिसूत्रे चैकवचने सर्वत्र स्यादाहारकः स्यादनाहारक इति, बहुवचने जीवैकेन्द्रियवर्जेषु शेषेषु स्थानेषु भङ्गत्रिकं, जीवपदे एकेन्द्रियेषु च पुनरभङ्गक, अशरीरिणः-सिद्धास्तेन तत्र द्वे एव पदे, तद्यथा-जीवाः सिद्धाश्च, तत्र एकवचन बहुवचने चोभयत्राप्यनाहारका एव । गतं शरीरद्वारं, सम्प्रति पर्याप्तिद्वारम्-तत्रागमे पर्याप्तयः पञ्च, भाषामनःपर्याप्त्योरेकत्वेन विवक्षणात्, तथा चाहारकपर्याप्त्या पर्याप्त शरीरपर्याप्त्या पर्याप्से इन्द्रियपर्यात्या पर्याप्त प्राणापानपर्याप्त्या पर्याप्ते भाषामनःपर्याप्त्या पर्याप्ते चिन्त्यमाने, अत्रैव सर्वसङ्कलनामाह-एतासु पञ्चखपि पर्याप्तिषु समर्थितासु चिन्त्यमानाखिति शेषः प्रत्येकमेकवचने जीवपदे मनुष्यपदे च स्यादाहारका स्यादनाहारक इति, शेषेषु तु स्थानेषु आहारक इति, बहुवचने 'जीवेसु मणुस्सेसु य तियभंगोत्ति जीवपदे मनुष्यपदे च भङ्गत्रिकं वक्तव्यं, तचौदारिकशरीरिसूत्रमिव भावनीयं, अवशेषाः सर्वेऽप्याहारका वक्तव्याः, नवरं भाषामनःपर्याप्तिः Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy