________________
| स्थानेषु बहुत्वेन लभ्यमानत्वात् 'मणजोगी वइजोगी जहा सम्मामिच्छट्टिी यत्ति मनोयोगिनो वाग्योगिनश्च यथा । प्राक् सम्यग्मिथ्यादृष्टय उक्तास्तथा वक्तव्याः, एकवचने बहुवचने चाहारका एव वक्तव्या न त्वनाहारका इति भावः, नवरं 'वइजोगो विगलिंदियाणवित्ति नवरमिति-सम्यग्मिथ्यादृष्टिसूत्रादत्रायं विशेषः, सम्यग्मिथ्यादृष्टित्वं विकलेन्द्रियाणां नास्तीति तत्सूत्रं तत्र नोक्तं, वाग्योगः पुनर्विकलेन्द्रियाणामप्यस्तीति तत्सूत्रमपि वाग्योगे वक्तव्यं, तचै-| वम्-'मणजोगीणं भंते ! जीवे किं आहारए अणाहारए ?, गो! आहारए नो अणाहारए, एवं एगिदियविगलिं
दियवजं जाव वेमाणिए, एवं पुहुत्तेणवि, वइजोगीणं भंते ! किं आहा. अणा. १, गो! आहारएं नो अणाहारए, ॥३॥ एवं एगिंदियवजं जाव वेमाणिए, एवं पुहत्तेणवित्ति, काययोगिसूत्रमप्येकवचने बहुवचने च सामान्यतः सयोगिसू
त्रमिव, अयोगिनो मनुष्याः सिद्धाश्च, तेनात्र त्रीणि पदानि. तद्यथा-जीवपदं मनुष्यपदं सिद्धपदं च, त्रिष्वपि स्थानेवेकवचने बहुवचने चानाहारकत्वमेव । गतं योगद्वारं, अधुनोपयोगद्वारमाह-तत्र साकारोपयोगसूत्रे अनाकारोपयोगसूत्रे च प्रत्येकमेकवचने सर्वत्र स्वादाहारकः स्यादनाहारक इति वक्तव्यं, सिद्धपदे त्वनाहारक इति, बहुवचन जीवपदे पृथिव्यादिपदेषु चाहारका अपि अनाहारका अपि इति भङ्गः, शेषेषु भङ्गत्रिकं, सिद्धास्त्वनाहारका इति, सूत्रोल्लेखस्त्वयम्-'सागारोवउत्ते णं भंते ! जीवे किं आहारए अणाहारए ?, गो.! सिय आहारए सिय अणाहारए'। इत्यादि । गतं उपयोगद्वारं, वेदद्वारे सामान्यतः सवेदसूत्रमेकवचने स्यादाहारकः स्यादनाहारक इति, बहुवचने जीव
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org