________________
३, अमीषां च भावना प्राग्वत्, तथा चाह-'जीवेगिदियवजो तियभंगों' इति, 'एव'मित्यादि, एवं यथा सामान्यतः सलेश्यसूत्रमुक्तं तथा कृष्णलेश्याविषयमपि नीललेश्याविषयमपि कापोतलेश्याविषयमपि सूत्रं वक्तव्यं, सर्वत्र सामान्यतो जीवपदे एकेन्द्रियेषु च प्रत्येकमभङ्गकं, शेषपक्षे भङ्गत्रिकं, तेजोलेश्याविषयमपि सूत्रमेकत्वे प्राग्वत् , बहुत्वे पृथिव्यवनस्पतिषु षट् भङ्गाः, तेषु कथं तेजोलेश्यासम्भव इति चेत् ?, उच्यते, भवनपतिव्यन्तरज्योतिष्कसौधर्मेशानदेवानां तेजोलेश्यावतां तत्रोत्पादभावात् , उक्तं चास्या एव भगवत्याः प्रज्ञापनायाचो-'जेणेतेसु भवणवइवाणमंतरजोइसियसोहम्मीसाणया देवा उववजंति तेणं तेउलेस्सा लब्भइ" इति, ते षट् भङ्गा इमे-सर्वे आहारकाः १ अथवा सर्वे अनाहारकाः २ अथवा आहारकश्चानाहारकश्च ३ अथवा आहारकश्च अनाहारकाश्च ४ अथवा आहारकाश्च अनाहारकश्च ५ अथवा आहारकाश्चानाहारकाश्च ६, शेषाणां जीवपदादारभ्य सर्वत्रापि भङ्गत्रिकं, तथा चाह–'तेउलेस्साए पुढविआउवणस्सइकाइयाणं छन्भंगा, सेसाणं जीवाईओ तियभंगो' इति, आह-किं सर्वेषामविशेषेण जीवपदादारभ्य भङ्गत्रिकमुत केषांचिदत आह-जेसिं अत्थि तेउलेसा' इति, येषामस्ति तेजोलेश्या तेषामेव भङ्गत्रिकं वक्तव्यं, न शेषाणां, एतेन किमावेदितं भवति ?,-नैरयिकविषयं तेजोवायुविषयं द्वित्रिचतुरि
१ श्रीहरिभद्रसूरिवरविहिता प्रज्ञापनाप्रदेशव्याख्यारूपैवेयं नत्वन्या काचिचूर्णिः, अस्ति च तत्रायं पाठः समग्रः, स्पष्टं च श्रावकधर्मपचाशकवृत्तौ औपपातिकाद्यानामुपाङ्गानां चूर्ण्यभाव इति प्रतिपादनम् ।
paer2029899280000000000
Jain Education International
For Personal & Private Use Only
wwwgainelibrary.org