________________
प्रज्ञापना
8न्द्रियविषयं च तेजोलेश्यासूत्रं न वक्तव्यमिति, तथा पद्मलेश्या शुक्ललेश्या च येषां सम्भवति तद्विषयं तयोः सूत्रं ||२८आहायाः मल- वक्तव्यं, तत्र पद्मलेश्या शुक्ललेश्या च तिर्यपञ्चेन्द्रियेषु मनुष्येषु वैमानिकेषु च लभ्यते न शेषेष्विति तयोः प्रत्येक रपदे उद्दे यवृत्ती. चत्वारि पदानि, तद्यथा-सामान्यतो जीवपदं तिर्यपञ्चेन्द्रियपदं मनुष्यपदं वैमानिकपदं च, सर्वत्राप्येकवचनचि- शः २.सू..
न्तायां स्यादाहारकः स्यादनाहारक इति भङ्गः, बहुवचनचिन्तायां भङ्गत्रिकं, तद्यथा-सर्वेऽपि तावद् भवेयुराहार॥५१७॥
काः १ अथवा आहारकाश्च अनाहारकश्च २ अथवा आहारकाश्चानाहारकाश्च ३, तथा चाह-'पम्हलेसाए सुकलेसाए जीवाइओ तियभंगोत्ति, अलेश्या-लेश्यातीतास्ते चायोगिकेवलिनः सिद्धाश्च, ततोऽत्र त्रीणि पदानि, तद्यथासामान्यतो जीवपदं मनुष्याः सिद्धाश्च, सर्वत्राप्येकवचनेन बहुवचनेन चानाहारका एव वक्तव्याः, एतदेवाह-'अलेस्सा जीवा मणुस्सा सिद्धा य एगत्तेणवि पुहुत्तेणवि नो आहारगा अणाहारगा' इति, गतं लेश्याद्वारम् । सम्प्रति सम्यग्दृष्टिद्वारम्-सम्यग्दृष्टिश्चेहीपशमिकसम्यक्त्वेन साखादनसम्यक्त्वेन क्षायोपशमिकसम्यक्त्वेन वेदकसम्यक्त्वेन क्षायिकसम्यक्त्वेन वा प्रतिपत्तव्यः, सामान्यत उपादानात् , तथैवाग्रे भङ्गचिन्ताया अपि करिष्यमाणत्वात्, तत्रौपशमिकसम्यग्दृष्ट्यादयः सुप्रतीताः, वेदकसम्यग्दृष्टिः पुनः क्षायिकसम्यक्त्वमुत्पादयन् चरमग्रासमनुभवन्नवसेयः ॥५१७॥ एकत्वे सर्वेष्वपि जीवादिपदेषु प्रत्येकमेष भङ्गः स्यादाहारकः स्यादनाहारक इति, नवरमत्र पृथिव्यादिविषयं सूत्रं न वक्तव्यं, तेषां सम्यग्दृष्टित्वायोगात् , 'उभयाभावो पुढवाइएसु' [उभयाभावः पृथ्व्यादिषु ] इति वचनाद्, बहुवचन
Seeeeeeeeeee
dain Education International
For Personal & Private Use Only
www.jainelibrary.org