SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ भवसिद्धिया णं भंते !' इत्यादि, अत्राप्याहारकद्वार इव जीवपदे एकेन्द्रियेषु च प्रत्येकमुभयत्र बहुवचनेनैक एव भङ्गो, यथा आहारका अपि अनाहारका अपि, शेषेषु नैरयिकादिषु स्थानेषु भङ्गत्रिकं, कदाचित्केवला आहारका एव न त्वेकोऽप्यनाहारकः, अथवा कदाचिदाहारका एकोऽनाहारकः, अथवा आहारका अपि अनाहारका अपि उभयत्रापि बहुवचनं, तथा चाह-'जीवगिदियवज्जो तियभंगो' इति, यथा च भवसिद्धिके एकस्मिन् बहुषु चाहारकानाहारकत्वचिन्ता कृता तथा अभवसिद्धिकेऽपि कर्तव्या, उभयत्राप्येकवचने बहुवचने च भङ्गसङ्ख्यायाः सर्वत्रापि समानत्वात् , तथा चाह-'अभवसिद्धिए एवं चेव' अभवसिद्धिकेऽपि भवसिद्धिक इव एकवचन बहुवचने च वक्तव्यमिति, | यस्तु न भवसिद्धिको नाप्यभवसिद्धिकः स सिद्धः, स हि भवसिद्धिको न भवति, भवातीतत्वात् , अभवसिद्धिकस्तु रूढ्या यः सिद्धिगमनयोग्यो न भवति स उच्यते, ततोऽभवसिद्धिकोऽपि न भवति, सिद्धिप्राप्तत्वात् , तथा च सति नोभवसिद्धिकनोअभवसिद्धिकत्वचिन्तायां द्वे एव पदे, तद्यथा-जीवपदं सिद्धिपदं च, उभयत्राप्येकवचने एक एव भङ्गोनाहारक इति, बहुवचनेऽप्येक एवानाहारका इति । संज्ञिद्वारे-'सन्नी णं भंते !' इत्यादि प्रश्नसूत्रं सुगम, निर्वचनसूत्रमाह-'गोयमे'त्यादि, विग्रहगतावनाहारकः शेषकालमाहारकः, ननु संज्ञी समनस्क उच्यते, विग्रहगती च मनो नास्ति ततः कथं संज्ञी सन्ननाहारको लभ्यते !, उच्यते, इह विग्रहगत्यापन्नोऽपि संश्यायुष्कवेदनात् संज्ञी व्यवहियते, यथा नारकायुष्कवेदनान्नारकस्ततो न कश्चिद्दोषः, 'एव'मित्यादि, एवमुपदर्शितेन प्रकारेण तावद् वक्तव्यं 1292e2e2e900402028292020 dalin Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy