________________
प्रज्ञापनाया: मलयवृत्ती.
२८आहारपदे उद्दे|शः२ सू.
॥५१३॥
अत्रोभयत्रापि बहुवचनं, एष च भङ्गो यदा बहवो विग्रहगयोत्पद्यन्ते तदा द्रष्टव्यः, शेषभङ्गकास्तु न सम्भवन्ति, आहारकपदस्य नैरयिकाणां सर्वदैव बहुवचनविषयतया लभ्यमानत्वात् , एवमसुरकुमारादिषु स्तनितकुमारपर्यवसानेषु द्वीन्द्रियादिषु च वैमानिकपर्यन्तेषु प्रत्येकं भङ्गत्रिकं भावनीयं, उपपातविरहभावतःप्रथमभङ्गस्य एकादिसङ्ख्यतयोत्पत्तेः शेषस्य च भङ्गद्वयस्य सर्वत्रापि लभ्यमानत्वात् , एकेन्द्रियेषु पुनः पृथिव्यप्तेजोवायुवनस्पतिरूपेषु प्रत्येकमेष एवैको भङ्गः आहारकाः अनाहारका अपि, पृथिव्यप्तेजोवायुषु प्रत्येकं प्रतिसमयमसङ्ख्यातानां वनस्पतिषु प्रतिसमयमनन्तानां विग्रहगत्योत्पद्यमानानां लभ्यमानतया अनाहारकपदेऽपि सदैव तेषु बहुवचनसम्भवात् , तथा चाह-एवं जाव वेमाणिया नवरं एगिदिया जहा जीवा' इति, एवं-नैरयिकोक्तभङ्गप्रकारेण शेषा अप्यसुरकुमारादयस्तावद्वक्तव्या यावद्वैमानिकाः, नवरमेकेन्द्रियाः पृथिव्यप्तेजोवायुवनस्पतिरूपाः प्रत्येकं यथा उभयत्रापि बहुवचने जीवा उक्तास्तथा वक्तव्याः, सिद्धेष्वेक एव भङ्गोऽनाहारक इति, सकलशरीरप्रहाणतस्तेषामाहारासम्भवात् बहूनां च सदा भावात् इति, गतं प्रथमं द्वारं ॥ द्वितीयं भव्यद्वारमभिधित्सुराह-भवसिद्धिए णं भंते !' इत्यादि, भवैः सङ्ख्यातरसङ्ख्यातैरनन्तैर्वा सिद्धिर्यस्यासौ भवसिद्धिको भव्यः, स कदाचिदाहारकः कदाचिदनाहारकः, विग्रहगत्याद्यवस्थायां अनाहारकः शेषकालं त्वाहारकः, एवं चतुर्विंशतिदण्डकेऽपि प्रत्येकं वाच्यं, तथा चाह-"एवं जाव वेमाणिए' अत्र च सिद्धविषयं सूत्रं न वक्तव्यं, मोक्षपदप्रासतया तस्स भवसिद्धिकत्वायोगात्, अत्रैव बहुवचनेनाहारकानाहारकत्वचिन्तां चिकीर्षुराह
secseeeeeeeeeeeeeeeeeeeee
॥ द्वितीयं भव्यद्वारमादिति, सकलशरीरप्रहाण प्रत्यकं यथा उभयत्रापियार
॥५१
dain Education International
For Personal & Private Use Only
www.jainelibrary.org