SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ इए णं भंते! किं आहारए' इत्यादि सुगमं तदेवं सामान्यतो जीवपदे नैरयिकादिषु चैकवचनेन आहारकानाहारकत्वचिन्ता कृता, सम्प्रति बहुवचनेन तां चिकीर्षुराह - 'जीवा णं भंते!' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! आहारका अपि अनाहारका अपि, सदैव बहुवचनविशिष्टा उभयेऽपि लभ्यन्ते इति भावः, तथाहि - विग्रहगतिव्यतिरेकेण शेषकालं सर्वेऽपि संसारिणो जीवा आहारकाः, विग्रहगतिस्तु क्वचित् कदाचित् कस्यचित्तु भवतीति सर्वकालमपि लभ्यमाना सा प्रतिनियतानामेव लभ्यते तत आहारकेषु बहुवचनं, अनाहारका अपि सिद्धाः सदैव लभ्यन्ते, ते चाभव्येभ्योऽनन्तगुणाः, अन्यच्च - सर्वकालमेकैकस्य निगोदस्य प्रतिसमयमसङ्ख्येयभागो विग्रहगत्यापन्नो लभ्यते, ततोऽनाहारकेष्वपि बहुवचनं, नैरयिकसूत्रे सर्वेऽपि तावद्भवेयुराहारकाः १, किमुक्तं भवति ? - कदाचिन्नैरयिकाः सर्वेऽप्याहारका एव भवन्ति, न त्वेकोऽप्यनाहारकः, कथमिति चेत्, उच्यते, उपपातविरहात्, तथाहि - नैरयिकाणामुपपातविरहो द्वादश मुहूर्त्ताः, एतावति चान्तरे पूर्वोत्पन्नविग्रहगत्यापन्ना अपि आहारका जाताः, अन्यस्त्वनुत्पद्यमानत्वात् अनाहारको न सम्भवतीति, अथवा आहारका अनाहारकाश्च २ आहारकपदे बहुवचनं अनाहारकपदे एकवचनमिति भावः, कथमेष भङ्गो घटामियत्तति चेत्, उच्यते, इह नरकेषु जन्तुः कदाचिदेक उत्पद्यते कदाचिद्दौ कदाचित् त्रयश्चत्वारो यावत्सङ्ख्याता असङ्ख्याता वा, तत्र यदा एक उत्पद्यते सोऽपि च विग्रहगत्यापन्नोऽपि भवति अन्ये च पूर्वोत्पन्नतया आहारका अभवन् तदा एष भङ्गो लभ्यते, तृतीयभङ्गमाह — अहवा आहारगा य अणाहारगां य ३, Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy