________________
प्रज्ञापना- या मलय. वृत्तौ. ॥५१॥
२८आहारपदे उद्देशः २ सू.
OBSO988
यावद्वैमानिको-वैमानिकसूत्रं, नवरमेकेन्द्रिया विकलेन्द्रिया न प्रष्टव्याः, किमुक्तं भवति ?-तद्विषयं सूत्रं सर्वथा न वक्तव्यं, तेषाममनस्कतया संज्ञित्वायोगात्, बहुवचनचिन्तायां जीवपदे नैरयिकादिपदेषु च प्रत्येकं सर्वत्र भङ्गत्रयं, तद्यथा-सर्वेऽपि तावद् भवेयुराहारकाः १ अथवा आहारकाश्च अनाहारकश्च २ अथवा आहारकाश्च अनाहारकाश्च ३, तथा चाह-'जीवातीतो तियभंगो जाव वेमाणिया' इति, तत्र सामान्यतो जीवपदे प्रथमभङ्गः सकललोकापेक्षया संज्ञित्वेनोत्पातविरहाभावात् द्वितीयभङ्ग एकस्मिन् संजिनि विग्रहगत्यापन्ने तृतीयभङ्गो बहुषु संजिषु विग्रहगत्यापन्नेषु, एवं नैरयिकादिपदेष्वपि भङ्गभावना कार्या, 'असण्णी णं भंते !' इत्यादि, अत्रापि विग्रहगतावनाहारकः | शेषकालमाहारकः, 'एवं जाव वाणमंतरे' इति एवं-सामान्यतो जीवपद इव चतुर्विशतिदण्डकक्रमेण तावत् वक्तव्यं यावद्वानमन्तरो-वानमंतरविषयं सूत्रं, अथ नैरयिका भवनपतयो वानमन्तराश्च कथमसंज्ञिनो येनासंज्ञिसूत्रे तेऽपि पठ्यन्ते इति उच्यते, इह नैरयिका भवनपतयो व्यन्तराश्चासंज्ञिभ्योऽपि उत्पद्यन्ते संज्ञिभ्योऽपि, असंज्ञिभ्यश्च उत्पद्यमाना असंज्ञिन इति व्यवहियन्ते संज्ञिभ्य उत्पद्यमानाः संज्ञिनः, ततोऽसंज्ञिसूत्रेऽपि ते उक्तप्रकारेण पठ्यन्ते, ज्योतिष्कवैमानिकास्तु संज्ञिभ्य एवोत्पद्यन्ते नासंज्ञिभ्य इति असंज्ञित्वव्यवहाराभावादिह ते न पठ्यन्ते, तथा चाह-'जोइसियवेमाणिया न पुच्छिजंति' किमुक्तं भवति?-तद्विषयं सूत्रं न वक्तव्यं, तेषामसंज्ञित्वाभावादिति, बहुवचनचिन्तायां सामान्यतो जीवपदे एक एव भङ्गः, तद्यथा-आहारका अपि अनाहारका अपि, प्रतिसमयमेके
9999999003
॥५१४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org