________________
प्रज्ञापना
याः मल
य० वृत्तौ .
॥५०९॥
न्ति, कथमिति चेत्, उच्यते, इह प्रत्युत्पन्नभावप्रज्ञापनां करोति नयः ऋजुसूत्रो न शेषा नैगमादयः, ऋजुसूत्रश्च क्रियमाणं कृतं अभ्यवाहियमाणमभ्यवहृतं परिणम्यमाणं परिणतमभ्युपगच्छति, अभ्यवह्रियमाणाश्च पुद्गलास्ते उच्चन्ते ये खशरीरतया परिणम्यमाना वर्त्तन्ते, अभ्यवाहियमाणं चाभ्यवहृतं परिणम्यमानं च परिणतमिति तन्मतेन खशरीरमेवाभ्यवहियते खशरीरं च तेषां पञ्चेन्द्रियशरीरं पञ्चेन्द्रियशरीरत्वात् तेषामत उक्तं नियमात् पञ्चेन्द्रियशरीराण्याहारयन्तीति एवमसुरकुमारादयः स्तनितकुमार पर्यवसाना भवनपतयो वक्तव्याः, पृथिवीकायिकसूत्रे प्रत्युत्पनभावप्ररूपणा चिन्तायां नियमादेकेन्द्रियशरीराण्याहारयन्तीति वक्तव्यं, तेषामेकेन्द्रियतया तत्शरीराणामेकेन्द्रियशरीरत्वात् एवं द्वीन्द्रियसूत्रे नियमात् द्वीन्द्रियशरीराण्याहारयन्तीति वक्तव्यं, त्रीन्द्रियसूत्रे नियमात् त्रीन्द्रियशरीराणि, चतुरिन्द्रियसूत्रे नियमात् चतुरिन्द्रियशरीराणि, तिर्यक्पञ्चेन्द्रिया मनुष्या व्यन्तरज्योतिष्कवैमानिकाश्च नैरयिकवद्र वक्तव्या, तथा चाह - 'पुढविकाइयाणं पुच्छा' इत्यादि । अधुना लोमाहाराधिकारं विभावयिपुरिदमाह - 'नेरइया ण' मित्यादि सुगमं, नवरं नैरयिकाणां प्रक्षेपाहारो न भवति, वैक्रियशरीराणां तथा स्वभावत्वात्, लोमाहा|रोऽपि पर्याप्तानामवसेयो नापर्याप्तानामिति, एवं एगिंदिया' इत्यादि, एवं – नैरयिकोक्तप्रकारेण एकेन्द्रियाः — पृथिव्यप्तेजोवायुवनस्पतयः सर्वे देवाश्च - असुरकुमारादयो यावद्वैमानिका भणितव्याः, तत्रैकेन्द्रियाणां प्रक्षेपाहाराभावो मुखाभावात् असुरकुमारादीनां वैक्रियशरीरतया तथा स्वभावात् द्वित्रिचतुरिन्द्रियास्तिर्यक्पञ्चेन्द्रिया
Jain Education International
For Personal & Private Use Only
२८ आहारपदे उहेशः १ सू. ३०७
॥५०९॥
www.jainelibrary.org