________________
अलोकाकाशेन प्रतिस्खलनं, व्याघातस्याभावो निर्व्याघातं ' शब्दे यथावदव्ययं पूर्वपदार्थे नित्यमव्ययीभाव' इत्यव्ययीभावः 'तेन वा तृतीयाया' इति विकल्पेन अम्विधानात् पक्षेऽत्रामभावः, नियमादवश्यंतया षदिशि व्यवस्थितानि षड्भ्यो दिग्भ्य आगतानि द्रव्याण्याहारयन्तीति भावः, व्याघातं पुनः प्रतीत्य लोकनिष्कुटादौ स्यात्-कदाचित्रिदिशि- तिसृभ्यो दिग्भ्य आगतानि कदाचिचतुर्दिग्भ्यः कदाचित्पञ्चदिग्भ्यः काऽत्र भावनेति चेत्, उच्यते, | इह लोकनिष्कुटे पर्यन्ताधस्त्यप्रतराग्नेय कोणावस्थितो यदा पृथिवीकायिको वर्त्तते तदा तस्याधस्तादलोकेन व्याप्तत्वात् अधोदिक्पुद्गलाभावः, आग्नेयकोणावस्थितत्वात् पूर्वदिक्पुद्गलाभावो दक्षिणदिक्पुद्गलाभावश्च, एवमधः पूर्वद - क्षिणरूपाणां तिसृणां दिशामलोकेन व्यापनात् ता अपास्य या परिशिष्टा ऊर्ध्वा अपरा उत्तरा च दिगव्याहता वर्त्तते तत आगतान् पुद्गलान् आहारयति, यदा पुनः स एव पृथिवीकायिकः पश्चिमां दिशं अमुञ्चन् वर्त्तते तदा पूर्वदिगभ्यधिका जाता द्वे च दिशौ दक्षिणाधस्त्यरूपे अलोकेन व्याहते इति स चतुर्दिगागतान् पुद्गलानाहारयति, | यदा पुनरु द्वितीयादिप्रतरगतपश्चिमदिशमवलम्ब्य तिष्ठति तदा अधस्त्यापि दिगभ्यधिका लभ्यते केवलदक्षि|णैका पर्यन्तवर्त्तिनी अलोकेन व्याहतेति पञ्चदिगागतान् पुद्गलानाहारयतीति, शेषं सूत्रं समस्तमपि पूर्ववद् भणनीयं, यस्तु विशेषस्तमुपदर्शयति- नवरं 'उस्सण्णकारणेणं ण हवई' इत्यादि सुगमं, 'फासिंदियवेमायत्ताए' इति विषमा मात्रा विमात्रा तस्या भावो विमात्रता त्या इष्टानिष्टनानाभेदतयेति भावो न तु नारकाणामेकान्ताशुभतया
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org