________________
982920292020
SABG0202999999
प्रज्ञापना- Malद्धिमात्मन्युत्पादयन्तीति भावः, तद्भावोऽप्रियता तया, 'असुभत्ताए' इति न शुभा अशुभा अशुभवर्णगन्धरसस्पर्शात्म- याः मल- | कत्वात् तद्भावस्तत्ता तया, 'अमणुन्नत्ताए' इति न मनोज्ञा अमनोज्ञाः, विपाककाले दुःखजनकतया न मनःप्रल्हादय० वृत्ती. हेतव इति भावः, तद्भावस्तत्ता तया, 'अमणामत्ताए' भोज्यतया मनः आमुवन्तीति मनापाः, प्राकृतत्वाच्च पकारस्य ॥५०॥
मकारत्वे मणाम इति सूत्रे निर्देशः, न मनआपा अमनपा, न जातुचिदपि भोज्यतया जन्तूनां मनापीभवन्तीति | भावस्तद्भावस्तत्ता तया, अत एव 'अणिच्छियत्ताए' इति अनीप्सिततया भोज्यतया खादितुमीष्टा ईप्सिता न ईप्सिता अनीप्सितास्तद्भावस्तत्ता तया, अभिज्झियत्ताए' अभिध्यानमभिध्या, अभिलाष इत्यर्थः, अभिध्या साता एविति अभिध्यितास्तारकादिदर्शनादितप्रत्ययः तद्भावस्तत्ता तया, किमुक्तं भवति?-ये गृहीता आहारतया पुद्गला न ते तृप्तिहेतवोऽभूवन्निति न पुनरभिलषणीयत्वेन परिणमन्ते, तथा 'अहत्ताए' इति अधस्तया, गुरुपरिणामतयेति भावः, नो ऊध्र्वतया-लघुपरिणामतया, अत एव दुःखतया गुरुपरिणामपरिणतत्वात् , न सुखतया लघुपरिणामपरिणतत्वाभावात् , ते पुद्गलास्तेषां नैरयिकाणां भूयो भूयः परिणमन्ते । एतान्येव आहारार्थिन इत्यादीनि सप्त द्वाराणि असुरकुमारादिषु भवनपतिषु चिचिन्तयिषुरिदमाह-'जहा नेरइयाण'मित्यादि, यथा नैरयिकाणां तथा असुरकुमाराणामपि
भाणितव्यं, यावत् 'तेसिं भुजो २ परिणमन्ती'ति पर्यन्तपदं, तत्र नैरयिकसूत्रादस्य सूत्रस्य विशेषमुपदर्शयति-'तत्थ पण जे से' इत्यादि, एवं चोपदर्शितं सूत्रं न मन्दमतीनां यथास्थितं प्रतीतिमागच्छति ततस्तदनुग्रहाय सूत्रमुपदश्यते
२८आहा. रपदे उद्देशः१असुरादीनामाहारादि | सू. ३०४
।
॥५०४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org