________________
वाग्योग्यपि वक्तव्यः, तद्यथा-'वइजोगी पं भंते ! वइजोगीति कालओ केवचिरं होति ?, गो.! जह० एकं समय उक्को० अंतोमुहुत्त'मिति तत्र यः प्रथमसमवे काययोगेन भाषायोग्यानि द्रव्याणि गृह्णाति द्वितीयसमये तानि भाषात्वेन परिणमय्य मुञ्चति तृतीयसमये चोपरमते म्रियते वा स एकं समयं वाग्योगी लभ्यते, आह च मूलटीकाकारः-'पढमसमये कायजोगण गहियाणं भासादवाणं बिइयसमये वइजोगेण निसग्गं काऊण उवरमंतस्स मरंतस्स वा एगसमओ लब्भई' इति, अन्तर्मुहूर्त निरन्तरं ग्रहणनिसगौं कुर्वन् तदनन्तरं चोपरमते, तथाजीवखाभाव्यात्, काययोगी जघन्यतोऽन्तर्मुहूर्त्तमिति, इह द्वीन्द्रियादीनां वाग्योगोऽपि लभ्यते, संज्ञिपञ्चेन्द्रियाणां मनोयोगोऽपि ततो यदा वाग्योगो भवति मनोयोगो वा तदा न काययोगप्राधान्यमिति सादिसपर्यवसितत्वभावात् जघन्यतोऽन्तर्मुहूर्त काययोगी लभ्यते, उत्कर्षतो वनस्पतिकालः, स च प्रागेवोक्तः, वनस्पतिकायिकेषु हि काययोग एव केवलो न वाग्योगो मनोयोगो वा, ततः शेषयोगासम्भवात्तेष्वाकायस्थितेः सततं काययोग इति मतं, अयोगी च सिद्धः, स च साद्यपर्यवसित इत्ययोगी साद्यपर्यवसित उक्तः । गतं योगद्वारमिदानी वेदद्वारं प्रतिपिपादयिषुराह
सवेदए णं भंते ! सवेदएति० १, गो० ! सवेदए तिविधे पं०, तं०-अणादीए वा अपज्जवसिते अणादीए वा सपज्जवसिए सादीए वा सपज्जवसिए, तत्थ णं जे से सादीए सपज्जवसिए से जह० अंतो० उक्को० अणंतं कालं अणंताओ उस्स
-
keeeeeeeeeee
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org