SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापना- याः मलय०वृत्ती. २८आहा. रपदे उद्देशः१असुरादीनामाहारादि सू.३०४ ॥५०॥ द्रव्याणि, अन्यथा ग्रहणासम्भवात्, न हि सङ्ख्यातप्रदेशात्मका असङ्ख्यातप्रदेशात्मका वा स्कन्धा जीवस्य ग्रहणयो- ग्या भवन्ति, क्षेत्रतोऽसङ्ख्येयप्रदेशावगाढानि कालतोऽन्यतरस्थितिकानि, जघन्यस्थितिकानि मध्यमस्थितिकानि उत्कृष्टस्थितिकानि चेति भावार्थः, स्थितिरिति चाहारयोग्यस्कन्धपरिणामत्वेनावस्थानमवसेयं, भावतो वर्णवन्ति गंधवन्ति रसवन्ति स्पर्शवन्ति च, प्रतिपरमाण्वेकैकवर्णगन्धरसस्पर्शभावात् , 'जाइं भावतो वण्णमंताई' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-'गो० ! ठाणमग्गणं पडुच्चे'त्यादि, तिष्ठन्ति विशेषा अस्मिन्निति स्थानं-सामान्यमेकवर्ण द्विवर्ण त्रिवर्णमित्यादिरूपं तस्य मार्गणं-अन्वेषणं तत्प्रतीत्य सामान्यचिन्तामाश्रित्येति भावार्थः, एकवर्णान्यपि द्विव दीन्यपि इत्यादि सुगमं, नवरं तेषामनन्तप्रादेशिकानां स्कन्धानामेकवर्णत्वं द्विवर्णत्वमित्यादि व्यवहारनयमतापेक्षया, निश्चयनयमतापेक्षया त्वनन्तप्रादेशिकस्कन्धोऽणीयानपि पञ्चवर्ण एवं प्रतिपत्तव्यः, 'विहाणमग्गणं पडुच्चे'त्या|दि, विविक्तम्-इतरव्यवच्छिन्नं धानं-पोषणं खरूपस्य यत् तद्विधानं-विशेषः कृष्णो नील इत्यादिप्रतिनियतो वर्णादिविशेष इतियावत् तस्य मार्गणं प्रतीत्य तानि कालवर्णान्यपि आहारयन्तीत्यादि सुगम, नवरमेतदपि व्यवहा| रतः प्रतिपत्तव्यं, निश्चयतः पुनरवश्यं तानि पञ्चवर्णान्येव, 'जाई वण्णओ कालवण्णाइंपी'त्यादि सुगम, यावद् 'अन-| न्तगुणसुकिल्लाइंपि आहारेंति' एवं गंधरसस्पर्शविषयाण्यपि सूत्राणि भावनीयानि, 'जाई भंते ! अणंतगुणलुक्खाई' ! इत्यादि, यानि भदन्त ! अनन्तगुणरूक्षाणि, उपलक्षणमेतत् एकगुणकालादीन्यपि आहारयन्तीति, तानि च भदन्त ! टseeeeeeeeeeeeeee स्ट Jain Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy