SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ आहारयामीति विशिष्टेच्छामन्तरेण यो निष्पाद्यते प्रावृट्काले प्रचुरतरमूत्राद्यभिव्यङ्ग्यशीत पुद्गलाद्याहारवत् सोऽनाभोग निर्वर्त्तित इति भावः, 'तत्थ ण'मित्यादि, तत्र - अनाभोगाभोगनिर्वर्त्तितयोर्मध्ये योऽसावनाभोग निर्वर्त्तित आहारः 'से ण' मिति पूर्ववत् 'अनुसमयं' प्रतिसमयं समये २ इत्यर्थः, इह च दीर्घ कालोपभोग्य स्याहारस्यैकवारमपि ग्रहणे तावन्तं कालमनुसमयं भवति, तत आभवपर्यन्तं सातत्यग्रहणप्रतिपादनार्थमाह-अविरहित आहारार्थः समुत्पद्यते, अथवा सततप्रवृत्ते आहारार्थेऽपान्तराले चुक्कस्खलितन्यायेन येन कथञ्चित् विरहभावेऽपि लोके तदगणनया अनुसमयमिति व्यवहारः प्रवर्त्तते ततोऽपान्तराले विरहाभावप्रतिपादनार्थमविरहित इत्युक्तं, अनुसमयमविरहितोनाभोग निर्वर्त्तित आहारार्थः समुत्पद्यमानः ओजआहारादिना प्रकारेणावसेयः, 'तत्थ ण' मित्यादि, तत्र - आभोगानाभोग निर्वर्त्तितयोर्मध्ये योऽसावाभोगनिर्वर्त्तितः आहारार्थः सोऽसङ्ख्येयसामयिक :- असङ्ख्येयैः समयैर्निर्वर्त्तितः, यच्चा| सङ्ख्येयसमय निर्वर्त्तितं तज्जघन्यपदेऽप्यन्तर्मुहूर्त्तिकं भवति न हीनमत आन्तर्मुहूर्त्तिक आहारार्थः समुत्पद्यते, किमुक्तं भवति ? - अन्तर्मुहूर्त्त कालं यावत् प्रवर्त्तते न परतो, नैरयिकाणां हि योऽसावाहारयामीत्यभिलाषः स परिगृहीताहारद्रव्यपरिणामेन यजनितमतितीव्रतरं दुःखं तद्भावादन्तर्मुहूर्त्तान्निवर्त्तते तत आन्तर्मुहुर्त्तिको नैरयिकाणामाहारार्थः, 'नेरइया ण' मित्यादि, नैरयिका णमिति पूर्ववत् किंखरूपमाहारमाहारयन्ति ?, भगवान् द्रव्यादिभेदतस्तमाहारयन्तीति निरूपयितुकाम आह— 'गोयमे' त्यादि, गौतम ! द्रव्यतो- द्रव्यखरूपपर्यालोचनायां अनन्तप्रादेशिकानि Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy