SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापना या मल य० वृत्तौ . ॥५००॥ जीवपरिगृहीता इत्यचित्ताहारा न सचित्ताहारा नापि मिश्राहाराः, एवमसुरकुमारादयः स्तनितकुमारपर्यवसाना भवनपतयो व्यन्तरा ज्योतिष्का वैमानिकाश्च वेदितव्याः, औदारिकशरीरिणः पुनरौदारिकशरीरपरिपोषयोग्यान् पुद्गलानाहारयन्ति, ते च पृथिवीकायिकादिपरिणामपरिणता इति सचित्ताहारा अचित्ताहारा मिश्राहाराश्च घटन्ते, तथा चाह - 'ओरालियसरीरा जाव मणूसा' इत्यादि, औदारिकशरीरिणः पृथिवीकायिकेभ्य आरभ्य यावन्मनुष्याः, किमुक्तं भवति ? - पृथिव्यप्तेजोवायुवनस्पतिरूपा एकेन्द्रिया द्वित्रिचतुःपञ्चेन्द्रिया मनुष्याश्च एते प्रत्येकं सचित्ताहारा अप्यचित्ताहारा अपि मिश्राहारा अपि वक्तव्याः । उक्तः प्रथमाधिकारः, सम्प्रति द्वितीयादीनष्टमपर्यन्तान् सप्ताधिकारान् चतुर्विंशतिदण्डकक्रमेण युगपदभिधित्सुः प्रथमतो नैरयिकाणामभिदधाति - 'नेरइया ण' मित्यादि, नैरयिका णमिति वाक्यालङ्कारे, भदन्त ! आहारार्थिनः, काक्वाऽभिधानतः प्रश्नार्थत्वावगतिः, भगवानाह – 'हंते' त्यादि, हन्तेत्यनुमतौ अनुमतमेतत्, गौतम ! आहारार्थिनो नैरयिका इति, यदि आहारार्थिनस्ततो भदन्त ! नैरयिका णमिति पूर्ववत् 'केवइका लस्स' त्ति प्राकृतत्वात् तृतीयार्थे षष्ठी, कियता कालेन आहारार्थः- आहारलक्षणं प्रयोजनं आहाराभिलाष इतियावत् समुत्पद्यते ?, भगवानाह - 'गौतम !' इत्यादि, नैरयिकाणां द्विविधो-द्विप्रकारः आहारः; तद्यथा - आभोगनिवर्त्तितोऽनाभोगनिर्वर्त्तितश्च तत्र आभोगनमाभोगः - आलोचनमभिसन्धिरित्यर्थः आभोगेन निर्व|र्त्तितः - उत्पादित आभोगनिर्वर्त्तित आहारयामीतीच्छापूर्व निर्मापित इतियावत्, तद्विपरीतोऽनाभोगनिर्वर्त्तितः, Jain Education International For Personal & Private Use Only २८आहा रपदे उद्दे शः १असुरादीना माहारादि सू. ३०४ ॥५००॥ www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy