SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ अचित्ताहारा इत्यादि १, द्वितीय आहारार्थिन इति २, तृतीयः 'केवइय'त्ति कियता कालेन आहारार्थः समुत्पद्यते इत्यादिरूपः ३, चतुर्थः किमाहारमाहारयन्तीतिपदोपलक्षितः ४ पञ्चमः सर्वत इतिपदोपलक्षितः, स चैवम्'नेरइया णं सबतो परिणामंती'त्यादि ५ चेवशब्दः समुच्चये, 'कइभागं'ति गृहीतानां पुद्गलानां कतिभागमाहारयन्तीत्येवमादिः षष्ठोऽधिकारः६, 'तथा सवे' इति यान् पुद्गलान् आहारतया गृह्णन्ति तान् किं सर्वान्-अपरिशेषान् आहारयन्ति उतासर्वान् इत्येवमुपलक्षितः सप्तमोऽधिकारः ७, तथाऽष्टमोऽधिकारः परिणामः-परिणामरूपो बोद्धव्यः, स चैवम्-'नेरइया णं भंते ! जे पोग्गले आहारत्ताए गेण्हंति ते णं तेसिं पुग्गला कीसत्ताए भुजो २ परिणामंती'त्यादिरूपः ८, नवमोऽर्थाधिकारः एकेन्द्रियादीनि शरीराणि, स चैवम्-'नेरइया णं भंते ! किं एगिदियसरीराई आहारति जाव पंचिंदियसरीराइं आहारेंति ? ९, दशमोऽधिकारो लोमाहारो-लोमाहारवक्तव्यतारूपः १०, एकादशो मनोभक्षितवक्तव्यतारूपः ११, "एएसिंतु' इत्यादि, एतेषां सामान्यतोऽनन्तरमुद्दिष्टानां पदानां-अर्थाधिकाराणां विभावना-विस्तरतः प्रकाशना नाम भवति कर्त्तव्यता, सूत्रकारवचनमेतत् । प्रतिज्ञातमव निर्वाहवितुकामो 'यथोद्देशं निर्देश' इति न्यायात् प्रथमाधिकारं विभावयति-'नेरइया णं भंते!' इत्यादि, नैरयिका भदन्त ! किं सचित्ताहाराः-सचित्तमाहारयन्तीति सचित्ताहाराः, एवमचित्ताहारा मिश्राहारा इत्यपि भाक्नीयं, भगवानाहगौतम'त्यादि, इह वैक्रियशरीरिणो वैक्रियशरीरपरिपोषयोग्यान पुदलानाहारयन्ति, ते चाचित्ता एव सम्भवन्ति न O3020200090809es-07 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy