________________
२३कर्मवे.
प्रज्ञापनाया मलय० वृत्ती.
दबन्धपदं सू. ३०१
॥४९६॥
क्षेपे एकवचनबहुवचनाभ्यां द्वौ द्वौ, षड्विधबन्धकप्रक्षेपे द्वौ, एकविधबन्धकप्रक्षेपे सति सप्त, ततोऽष्टविधबन्धक| षड्विधबन्धकपदप्रक्षेपे चत्वारः, अष्टविधबन्धकैकविधबन्धकपदप्रक्षेपे चत्वारः, षड्विधबन्धकएकविधवन्धकपदप्रक्षेपेऽपि चत्वारः, एकोनविंशतिः, ततोऽष्टविधवन्धकषड्विधवन्धकैकविधबन्धकपदानां युगपत् प्रक्षेपेऽष्टाविति सप्तविंशतिः, वेदनीयसूत्रे एकविधबन्धकः सयोगिकेवल्यपि, तस्यापि वेदनीयोदयबन्धसम्भवात् , अबन्धकोऽयोगिकेवली, तस्य योगाभावतो वेदनीयं वेदयमानस्यापि तद्वन्धासम्भवाद्, वेदनीयसूत्रे एकवचनबहुवचनचिन्तायां जीवपदे नव भङ्गाः, तत्र सतविधबन्धकाष्टविधबन्धकैकविधबन्धकानां सदैव बहुत्वेन लभ्यमानत्वात् बहुवचनात्मके इतरपदद्वयाभावे एकः, ततः षविधबन्धकपदप्रक्षेपे एकवचनबहुवचनाभ्यां द्वौ एवमेव द्वावेकविधबन्धकपदप्रक्षेपे चत्वार उभयपदप्रक्षेपे इति । मनुष्यपदे सप्तविंशतिः, तत्र हि सप्तविधबन्धका एकविधबन्धका एकेन बहुत्वेन सदावस्थिता इतरे तु त्रयोऽप्यष्टविधबन्धकाः षड्विधबन्धकाः अबन्धकाश्च कादाचित्का एकत्वादिना च भाज्याः, ततस्तेषामभावे | सप्तविधबन्धका अप्येकविधबन्धका अपीत्येको भङ्गः, ततोऽष्टविधबन्धकपदप्रक्षेपे एकवचनबहुवचनाभ्यां द्वौ द्वौ षविधवन्धकपदप्रक्षेपे द्वावेकविधबन्धकपदप्रक्षेपे इति षट्, तथा त्रयाणां पदानां त्रयो द्विकसंयोगा एकैकस्मिन् द्विकसंयोगे एकवचनबहुवचनाभ्यां चत्वार इति द्विकसंयोगे द्वादश त्रिकसंयोगेऽष्टाविति सर्वसङ्ख्यया सप्तविंशतिः, एवमायुनामगोत्रसूत्राण्यपि भावनीयानि, मोहवेदनीयं कर्म वेदयमानो जीवः सप्तविधबन्धकोऽष्टविधबन्धकः षड़
SO90999900900507
॥४९६॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org