SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ विधबन्धको वा, सूक्ष्मसम्परायावस्थायामपि मोहनीयवेदनसम्भवात् , एवं मनुष्यपदेऽपि वक्तव्यं, नरकादिषु तु पदेषु सप्तविधबन्धकोऽष्टविधबन्धको वेत्येवं वक्तव्यं, सूक्ष्मसम्परायत्वाभावतः षड्विधबन्धकत्वासम्भवात् , बहुवचनचिन्तायां जीवपदे भङ्गत्रिक, तत्र सूक्ष्मसम्परायाः कादाचित्का इतरे च द्वये सदैव बहुत्वेन लभ्यन्ते इति षड्वि|धबन्धकपदाभावे सप्तविधबन्धका अपि अष्टविधवन्धका अपीयेको भङ्गः, ततः षड़विधबन्धकपदप्रक्षेपे एकवचनबहुवचनाभ्यां द्वावेतो भङ्गाविति, नैरयिकादिषु स्तनितकुमारपर्यवसानेषु सप्तविधबन्धकाः सदा बहुत्वेनावस्थिताः, अष्टविधबन्धकास्तु कादाचित्का एकत्वादिना च भाज्या इति, अष्टविधबन्धकपदाभावे सप्तविधबन्धका इत्येको भङ्गः, ततोऽष्टविधबन्धकपदप्रक्षेपे एकवचनबहुवचनाभ्यां द्वाविति, पृथिव्यादिषु तु पञ्चखप्यभङ्गक सप्सविधबन्धका अपि अष्टविधबन्धका अपीति, उभयेषामपि तेषु सदा बहुत्वेन लभ्यमानत्वात् , द्वित्रिचतुरिन्द्रियतिर्यपञ्चेन्द्रियेषु व्यन्तरज्योतिष्कवैमानिकेषु च नैरयिकवत् भङ्गत्रिकं, मनुष्येषु नव भङ्गाः, तत्र सप्तविधबन्धका इत्येको भङ्गस्ततोऽष्टविधबन्धकपदप्रक्षेपे एकवचनबहुवचनाभ्यां द्वौ द्वौ षड्विधबंधकपदप्रक्षेपे एकवचनबहुवचनाभ्यां चत्वारः उभयपदप्रक्षेपे इति, तथा चाह-"मोहणिजं वेएमाणे जहा [बंधे] णाणावरणिजं तहा भाणियब'मिति ॥ इति श्रीमलयगिरिविरचितायां षडविंशतितमं वेदबन्धाख्यं पदं समाप्तम् ॥ 90209080928980202000 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy