________________
धते य अबंधते य, एवं एते सत्तावीसं भंगा भाणितवा, एवं जहा वेदणिज तहा आउयं नाम गोयं च भाणितवं, मोहणिजं वेदेमाणे जहा णाणावरणिजं तहा भाणियत्वं ॥ (मूत्रं ३०१) पण्ण. छब्बीसतिमं पयं समत्तम् ॥ २६॥
'कति णं भंते ! इत्यादि गतार्थ, सम्प्रति किं कर्म वेदयमानः काः कर्मप्रकृतीबंधातीत्युदयेन सह बन्धस्य सम्बन्धं चिचिन्तयिषुरिदमाह-'जीवे णं भंते ! णाणावरणिजं कम्मं वेएमाणे कइ कम्मपगडीओ बंधई' इत्यादि सुगम, नवरं ज्ञानावरणीयं कर्म वेदयमान एकविधबन्धकः उपशान्तमोहः क्षीणमोहो वा न तु सयोगिकेवली, तस्य ज्ञानावरणीयोदयाभावात् , बहुवचनचिन्तायां षड्विधबन्धकाः सूक्ष्मसम्पराया एकविधबन्धका उपशान्तमोहक्षीणमोहाः कादाचित्का एकत्वादिना च भाज्या इत्युभयेषामप्यभावे सप्तविधबन्धका अपि अष्टविधबन्धका अपीत्येको भङ्गो, द्वयानामपि सदैव बहुत्वेन लभ्यमानत्वात् , ततः षडविधबन्धकपदप्रक्षेपे एकवचनबहुवचनाभ्यां द्वौ भङ्गो, एवमेव द्वौ भङ्गावेक विधबन्धकप्रक्षेपेऽपि, उभयोरपि युगपत् प्रक्षेपे पूर्ववचत्वार इति सर्वसत्यया नव, नैरयिकादिषु तु पदेष्वेकेन्द्रियमनुष्यवर्जेषु बहुवचनचिन्तायां भङ्गत्रिकं, अष्टविधवन्धकानां कादाचित्कतया एकत्वादिना भाज्यतया च लभ्यमानत्वात् , एकेन्द्रियेष्वभङ्गक, सप्तविधबन्धका अष्टविधबन्धका अपीति, उभयेषामपि सदा बहुत्वेन प्राप्यमाणत्वात् , मनुष्येषु तु सप्तविंशतिर्भङ्गाः, अष्टविधवन्धकषड्विधवन्धकएकविधबंधकानां कादाचित्कतया एक|त्वादिना भाज्यमानतया लभ्यमानत्वात् , तत्रामीषामभावे सप्तविधबन्धका इत्येको भङ्गः, ततोऽष्टविधवन्धकपदप्र
dain Education International
For Personal & Private Use Only
www.jainelibrary.org