________________
लतः कियचिरं भवति, भगवानाह-गौतम ! 'जहन्नेणमित्यादि, एतदपि सूत्रं सांव्यवहारिकजीवविषयमवसातव्यं, अन्यथा उत्कर्षतोऽसङ्ख्येयकालमिति यन्निर्वचनमुक्तं तन्नोपपद्यते, सूक्ष्म निगोदजीवानामसांव्यवहारिकराशिनिपति| तानामनादितायाः प्रागुपपादितत्वात् , 'खेत्ततो असंखेजा लोगा' इति, असङ्ख्येयेषु लोकाकाशेषु प्रतिसमयमेकैकप्रदेशापहारे यावत्य उत्सर्पिण्यवसर्पिण्यो भवन्ति तावत्प्रमाणा असङ्ख्येया उत्सर्पिण्यवसर्पिण्य इत्यर्थः । सूक्ष्मवनस्पतिकायसूत्रमपि प्रागुक्तयुक्तिवशात् सांव्यवहारिकजीवविषयं व्याख्येयं । तथा सूक्ष्माः सामान्यतः पृथिवीकायि-181 कादिविशेषणविशिष्टाश्च पर्याप्ता अपर्याप्ताश्च निरन्तरं भवन्तो जघन्यतः उत्कर्षतो वाऽन्तर्मुहूर्त कालं यावत् न पर| मपि, ततस्तद्विषयसूत्रकदम्बके सर्वत्रापि जघन्यतः उत्कर्षतो वाऽन्तर्मुहूर्तमुक्तं, बादरसामान्यसूत्रे यदुक्तम् 'असंखे|जकालं' तस्य विशेषनिरूपणार्थमाह-असङ्ख्येया उत्सर्पिण्यवसर्पिण्यः, इदं कालतः परिमाणमुक्तं, क्षेत्रत आह'अंगुलस्स असंखेज्जइभागो' इति, अङ्गलस्थासङ्ख्ययभागः, किमुक्तं भवति?–अङ्गुलस्यासङ्ख्येयतमे भागे यावन्त आकाशप्रदेशास्तेषां प्रतिसमयं एकैकप्रदेशापहारे यावन्त्योऽसङ्ख्येया उत्सर्पिण्यवसर्पिण्यो भवन्ति तावत्य इति, अथ कथं अङ्गुलासङ्ख्येयभागमात्रस्यापि प्रतिसमयमेकैकप्रदेशापहारे असङ्ख्येया उत्सर्पिण्यवसर्पिण्यो लगन्ति ?, उच्यते, क्षेत्रस्य सूक्ष्मत्वात् , उक्तं च-"सुहुमो य होइ कालो तत्तो सुहुमयरयं हवइ खिच"मित्यादि, [ सूक्ष्मश्च भवति कालस्ततः सूक्ष्मतरकं भवति क्षेत्रं] एतच वादरवनस्पतिकायापेक्षयाऽवसातव्यं, अन्यस्य बादरस्यैतावत्का
30002020009882920202020
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org