________________
प्रज्ञापनावाः मलयवृत्ती.
२४कर्मव. न्धपदं
॥४९॥
मणूसे जहा जीवे' इति । उक्त एकत्वेन दण्डकः, सम्प्रति बहुत्वेनाह-'जीवा णं भंते' इत्यादि, इह जीवाः सप्तवि- धबन्धकाः अष्टविधवन्धकाश्च सदैव बहुत्वेन लभ्यन्ते, षडूविधवन्धकस्तु कदाचित्सर्वथा न भवति, षण्मासान् या- वत् उत्कर्षतस्तदन्तरस्य प्रतिपादनात्, यदापि लभ्यते तदापि जघन्यपदे एको द्वौ वा उत्कर्षतोऽष्टाधिकं शतं, तत्र यदैकोऽपि न लभ्यते तदा प्रथमो भङ्गः, यदा त्वेको लभ्यते तदा द्वितीयो, बहूनां लाभे तु तृतीय इति, नैरयिकाः षड्विधबन्धका न भवन्ति अष्टविधबन्धका अपि कादाचित्काः, तत्र यदैकोऽप्यष्टविधवन्धको न लभ्यते तदा सर्वेऽपि तावद् भवेयुः सप्तविधबन्धका इति प्रथमो भङ्गः, यदा त्वेकोऽष्टविधबन्धकस्तदा द्वितीयो यदा तु बहवस्तदा तृतीय इति, एतदेव भङ्गत्रिकं दशखपि भवनपतिषु भावनीयं, पृथिव्यादिषु पञ्चसु सप्तविधबन्धका अपि अष्टविधबन्धका अपीत्येक एव भङ्गोऽष्टविधबन्धकानामपि सदैव तेषु बहुत्वेन लभ्यमानत्वात् , द्वित्रिचतुरिन्द्रियतिर्य पञ्चेन्द्रियसूत्रेषु भङ्गत्रिकं नैरयिकवत् , मनुष्यसूत्रे भङ्गनवकमष्टविधवन्धकस्य पद्भिधबन्धकस्य च कदाचित् सर्वथाप्यभावात् , तत्राष्टविधषविधवन्धकाभावे सर्वेऽपि तावद् भवेयुः सप्तविधबन्धका इति प्रथमो भङ्गः, सप्तविधबन्धकानां सदैव बहुत्वेन प्राप्यमाणत्वात् , एकाष्टविधवन्धकभावे द्वितीयः सप्तविधवन्धकाश्चाष्टविधबन्धकश्च, बह्वष्टविधबंधकभावे तृतीयः सप्तविधवन्धकाश्चाष्टविधबंधकाच, एवमेवाष्टविधबन्धकाभावे षइविधवन्धकपदेनाप्येकत्वबहुत्वाभ्यां द्वौ भङ्गाविति द्विकसंयोगे चत्वारो भङ्गाः, त्रिकसंयोगेऽप्यष्टविधबन्धकपविधबन्धकपदयोः प्रत्येकमेकवचनबहुवचना
॥४९
॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org