________________
प्रज्ञापना
याः मल
य० वृत्तौ .
॥४८९ ॥
मशरीरिणश्च निरुपक्रमायुष एव, शेषास्तु सोपक्रमा अपि निरुपक्रमा अपि उक्तं च - "देवों नेरइया वा असंखवासाउया य तिरिमणुया । उत्तमपुरिसा य तहा चरमसरीरा य निरुवकमा ॥ १ ॥ सेसा संसारत्था भइया सोवकमा व | इयरे वा । सोवक्कमनिरुवक्कमभेओ भणिओ समासेणं ॥ २ ॥” [देवा नैरयिका वा असंख्यवर्षायुष्काश्च नरतिर्यञ्चः । उत्तमपुरुषाश्च तथा चरमशरीराश्च निरुपक्रमाः ॥ १ ॥ शेषाः संसारस्था भक्ताः सोपक्रमा वेतरे वा । सोपक्रमनिरुपक्रमभेदो भणितः समासेन ॥ २ ॥] तत्र देवा नैरयिका असङ्ख्येयवर्षायुषस्तिर्यग्मनुष्याश्च पण्मासावशेषायुषः पारभविकायुर्बन्धका एव, ये पुनस्तिर्यग्मनुष्याः संख्ये वर्षायुषोऽपि निरुपक्रमायुषस्ते नियमात्रिभागावशेषायुषः परभवायुर्वन्ति, ये तु सो पक्रमायुषस्ते स्यात्रिभागावशेषायुषस्त्रिभाग त्रिभागावशेषायुषो यावदसङ्क्षेप्याद्धाप्रविष्टा इति, तत आह - 'जे णं जीवे' इत्यादि, यो णमिति वाक्यालङ्कारे जीवोऽसङ्क्षेप्याद्धाप्रविष्टः त्रिभागादिना प्रकारेण या सङ्क्षेसुं न शक्यते सा असङ्क्षेप्या सा चासौ अद्धा च असङ्क्षेप्याद्धा तां प्रविष्टः असङ्क्षेप्याद्धाप्रविष्टः, अत आह— ' से ' तस्यासप्याद्धाप्रविष्टस्य जीवस्यायुः सर्वनिरुद्धं उपक्रमहेतुभिरतिसङ्क्षिप्तीकृतं, आयुर्वन्धनिवर्त्तनमात्र एव कालः तस्यास्ति न परतो जीवनकाल इति भावः, एतदेव स्पष्टतरमाह - 'सेसे सक्षमहंतीए आउयबंधद्धाए' इह सर्वमहती | आयुर्बन्धाद्धा अष्टाकर्षप्रमाणा तस्याः शेषः - एकाकर्षप्रमाणा तावन्मात्रं सर्वनिरुद्धं तस्यायुर्वर्त्तते इति भावः, ततो- ऽसङ्क्षेप्याद्धाप्रविष्टः, स इत्थंभूतः तस्या - आयुर्वन्धाद्धायाश्चरमकालसमये — चरमकालावसरे एकाकर्षप्रमाणे, इह
Jain Education International
For Personal & Private Use Only
२३ कर्मप्रकृतिपदं
॥४८९ ॥
www.jainelibrary.org