SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ द्वौ सागरोपमस्य सप्तभागी पल्योपमासङ्ख्येयभागहीनौ, उत्कर्षतो विंशतिः सागरोपमकोटीकोटयः, तथा चाह'बायरनामाए जहा अपसत्थविहायोगइनामाए, एवं पज्जत्तनामाएवि' इत्यादि, स्थिरशुभसुभगसुखरादेयरूपाणां पञ्चानां नाम्नां जघन्यतः स्थितिरेकः सागरोपमस्य सप्तभागः पल्योपमासङ्ख्येयभागोनः, यश-कीर्तिनाम्नस्तु जघन्यतोऽष्टौ मुहूर्ताः, 'अट्ट मुहुत्ता जसुच्चगोयाण'मिति वचनात् , उत्कृष्टा पुनः षण्णामपि दश सागरोपमकोटीकोटयः 'थिराइछक्कदेवदुगे दसे'ति वचनात् , अस्थिराशुभदुर्भगदुःखरानादेयायशःकीर्त्तिनाम्नां तु जघन्यतो द्वौ सागरोपमस्य सप्तभागौ पल्योपमासङ्ख्येयभागहीनी, उत्कर्षतो विंशतिः सागरोपमकोटीकोटयः, एवं निर्माणनामोऽपि वक्तव्यं, तीर्थकरनानो जघन्यतोऽप्यन्तःसागरोपमकोटीकोटी उत्कर्षतोऽप्यन्तःसागरोफ्मकोटीकोटी, ननु यदि जघन्यतोऽपि तीर्थकरनाम्नोऽन्तःसागरोपमकोटीकोटीप्रमाणा स्थितिः तर्हि तावत्याः स्थितेः तिर्यग्भवभ्रमणमन्तरेण पूरयितुमशक्यत्वात् कियन्तं कालं तीर्थकरनामसत्कर्मापि तिर्यग्भवेत्, अथ चासावागमे निषिद्धः, तथा चोक्तम्-"तिरिएसु नत्थि तित्थयरनाम संतंति देसियं समए । कह य तिरिओ न होही अयरोवमकोडीकोडीओ ॥ १॥" [तिर्यक्षु नास्ति तीर्थकरनाम सत्तायां इति देशितं समये । कथं च तिर्यक् न भविष्यति अतरोपमकोटीकोटीस्थितिकत्वात् ? ॥१॥] इति , ततः कथमेतदिति चेत्, उच्यते, इह यन्निकाचितं तीर्थकरनामकर्म तत्तिर्यग्गती सत्तायां निषिद्ध, यत्पुनरुद्वर्तनापवर्तनासाध्यं तद्भवेदपि तिर्यग्गतौ न विरोधमास्कन्दति, तथा चोक्तम्-“जमिह Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy