________________
प्रज्ञापना- याः मलयवृत्ती.
२३ कर्मबन्धपदे कमस्थितिः सू. २९४
॥४८॥
कालोना कर्मस्थितिः कर्मदलिकनिषेकः, तथा चाह–'फासा जे अप्पसत्था तेसिं जहा सेवठ्ठस्स जे पसत्था तेसिं जहा सुकिल्लवण्णनामस्स' इति, नरकानुपूर्वीनाम्नो जघन्यतः सागरोपमसहस्रस्य द्वौ सप्तभागौ, द्वौ सागरोपमस्य सप्तभागी सहस्रगुणिताविति भावः, भावना नरकगतिवद् भावयितव्या, मनुष्यानुपूर्वीनामसूत्रे “जहण्णणं सागरोवमस्स दिवहुं सत्तभागं पलिओवमस्स असंखिजइभागेण ऊणगं'ति, तदुत्कृष्टस्थितेः पञ्चदशसागरोपमकोटीकोटी- प्रमाणत्वात् , उक्तं चान्यत्रापि-"तीसं कोडाकोडी असायआवरणअंतरायाणं । मिच्छे सयरी इत्थीमणुदुगसायाण पन्नरस ॥१॥”[त्रिंशत् सागरोपमकोटीकोट्योऽसातावरणान्तरायाणाम् । मिथ्यात्वे सप्ततिः स्त्रीमनुष्यद्विकसातानां पञ्चदशं ॥१॥] देवानुपूर्वीनाम्नोऽपि जघन्यतः एकः सागरोपमस्य सप्तभागः सहस्रगुणितः पल्योपमासङ्ख्येयभागहीनः, उत्कर्षतो हि तत्स्थितेः दशसागरोपमकोटीकोटीप्रमाणत्वात् , तथा चोक्तम्-"पुंहासरईउच्चे सुभखगतिथिराइछक्कदेवदुगे । दस सेसाणं वीसा एवइयाऽवाह वाससया ॥१॥॥" [पुंवेदहास्यरत्युच्चैर्गोत्रशुभविहायोगतिस्थिरादिषटूदेवद्विकेषु । दश शेषाणां विंशतिः एतावन्त्यबाधा वर्षशतानि ॥१॥] बन्धश्चास्य जघन्यतोऽसंज्ञिपञ्चेन्द्रियेषु इति, तथा सूक्ष्मनामसूत्रे जघन्यतो नव सागरोपमस्य पञ्चत्रिंशद्भागाः पल्योपमासङ्ख्येयभागहीना द्वीन्द्रियजातिनाम्न इव भावनीया, सूक्ष्मनानो द्युत्कर्षतः स्थितेरष्टादशसागरोपमकोटीकोटीप्रमाणत्वात् , 'अट्टारस सुहुमविगलतिगे' इति वचनात् , एवमपर्याप्तसाधारणनामोरपि भावनीयं, बादरपर्याप्तप्रत्येकनाम्नां तु जघन्यतो
॥४८॥
For Personal & Private Use Only
dain Education International
www.jainelibrary.org