SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ IS भावना स्त्रीवेदवद् भावनीया, 'दिवद्धसत्तभाग'मित्यादौ तु नपुंसकनिर्देशः प्राकृतत्वात् , नरकगतिनाम्नो जघन्यतः सागरोपमसहस्रस्य द्वौ सप्तभागौ, किमुक्तं भवति ?-सागरोपमस्य द्वौ सप्तभागी सहस्रेण गुणिताविति, तदुत्कृष्टस्थितेविंशतिसागरोपमकोटाकोटीप्रमाणत्वात् , तद्वन्धस्य च सर्वजघन्यस्यासंज्ञिपञ्चेन्द्रियस्य भावात् , असंज्ञिपञ्चेन्द्रियकमबन्धस्य च जघन्येनैकेन्द्रियजघन्यकर्मबन्धापेक्षया सहस्रगुणत्वात् , भावयिष्यते चायमों वैक्रियचिन्तायां, देवगतिनाम्नो जघन्यतः सागरोपमसहस्रस्यैकः सप्तभागः, एकः सागरोपमस्य सप्तभागः सहस्रगुणित इति भावः, तस्य हि उत्कृष्टा स्थितिर्दश सागरोपमकोटीकोटयः, ततःप्रागुक्तकरणवशादेकः सागरोपमस्य सप्तभागो लब्धः, बन्धोऽपि चाय जघन्यतोऽसंज्ञिपञ्चेन्द्रियस्येति सहस्रगुणितः, देवगतिनामसूत्रे 'उक्कोसेणं जहा पुरिसवेयस्स' इति 'दस सागरोवमकोडीओ दसवाससयाई अबाहा, अबाहूणिया कम्मठिई कम्मनिसेगों' इति वक्तव्यमिति भावः, द्वीन्द्रियजातिनामसूत्रे 'जहन्नेणं नव पणतीसहभागा पलिओवमस्स असंखेजइभागेण ऊणगा' इति, द्वीन्द्रियजातिनानो द्युत्कृष्टा स्थितिरष्टादश सागरोपमकोटीकोटयः, 'अट्ठारस सुहुमविगलतिगे'त्ति [ सूक्ष्मा विकलेन्द्रियाश्चाष्टादश] वचनात् , ततोऽष्टादशानां सागरोपमकोटीकोटीनां मिथ्यात्वस्योत्कृष्टया स्थित्या सप्ततिसागरोपमकोटाकोटीप्रमाणया भागो हियते, | भागश्च न पूर्यते, ततः शून्यं शून्येन पात्यते, जाता उपरि अष्टादश अधस्तात् सप्ततिस्तयोरर्द्धनापवर्तनालब्धा नव पञ्चत्रिंशद्भागास्ते पल्योपमासङ्ख्येयभागोनाः क्रियन्ते, आगतं सूत्रोक्तं परिमाणमिति, एवं त्रिचतुरिन्द्रियजातिनामसूत्रे Sonoad8808092000 Jain Education International For Personal & Private Use Only ___www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy