SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापना या: मल य० वृत्तौ . ॥४८०॥ उच्यते, त्रैराशिककरणवशात्, तथाहि - यदि दशानां सागरोपमकोटीकोटीनां एकः सागरोपमसंप्तभागो लभ्यते ततः पञ्चदशभिः सागरोपमकोटीकोटीभिः किं लभ्यते १, राशित्रयस्थापना - १० । १ । १५ । अत्रान्त्येन राशिना पञ्चदशलक्षणेन मध्यो राशिरेकलक्षणो गुण्यते, जाताः पञ्चदशैव, 'एकस्य गुणने तदेव भवतीति वचनात् तेषामाद्येन राशिना दशकलक्षणेन भागहरणं लब्धा सार्द्धाः सप्तभागा इति, 'हासरइअरइभयसोगदुगुंछाणं जहण्णुक्कोसटिई भाणियचा' इति हास्यरतिअरतिभयशोकजुगुप्सानां जघन्या उत्कृष्टा च स्थितिर्वक्तव्या, सा च सुप्रसिद्धत्वान्नोक्ता, कथं वक्तव्येति चेत्, उच्यते, 'हासरईणं पुच्छा गो० ! जहण्णेणं एगो सागरोवमस्स सत्तभागो पलिओवमस्स असंखेजभागेण ऊणो उक्को० दस सागरोवमकोडाकोडीओ दस वाससयाई अवाहा जाव निसेगो, अरइभयसोगदुगुंछाणं पुच्छा, गो० ! जहण्णेणं सागरोवमस्स दोणि सत्तभागा पलिओवमस्स असंखेज्जइभागेण ऊणगा उक्कोसेणं वीसं सागरोवम कोडाकोडीओ वीससयाई अबाहा जाव निसेगो' इति ज्ञेयं, तिर्यगायुषि मनुष्यायुषि च त्रीणि पल्योपमानि पूर्वकोटित्रिभागाभ्यधिकानि इति यदुक्तं तत् पूर्वकोट्यायुषस्तिर्यग्मनुष्यान् बन्धकानधिकृत्य वेदितव्यं, अन्यत्रैतावत्याः स्थितेः पूर्वकोटित्रिभागरूपाया अबाधायाश्चालभ्यमानत्वात्, 'तिरियगइनामाए जहा नपुंसगवेयस्स' इति, जघन्यतो द्वौ सागरोपमस्य सप्तभागौ पल्योपमासङ्ख्येयभागहीनौ, उत्कर्षतो विंशतिः सागरोपमकोटी कोट्य इत्यर्थः, मनुष्यगतिनानि 'जहणणेणं सागरोवमस्स दिवसत्तभागं पलिओ मस्स असंखेज्जइभागेण ऊणगं' ति अत्र Jain Education International For Personal & Private Use Only २३ कर्मन्धपदे कस्थितिः सू. २९४ ॥४८०॥ www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy