________________
भागोना निद्रापञ्चकवद् भावनीयाः, तस्याप्युत्कर्षतः स्थितेस्त्रिंशत्सागरोपमकोटीकोटीप्रमाणत्वात् , सम्यक्त्ववेदनी-18 यस्य यत् जघन्यतः स्थितिपरिणाममन्तर्मुहुर्त उत्कर्षतः षट्षष्टिःसागरोपमाणि सातिरेकाणि तद्वेदनमधिकृत्य वेदितव्यं । न बन्धमाश्रित्य, सम्यक्त्वसम्यग्मिध्यात्वयोर्बन्धाभावात् , मिथ्यात्वपुद्गला एव हि जीवेन सम्यक्त्वानुगुणविशोधिबलतस्त्रिधा क्रियन्ते, तद्यथा-सर्वविशुद्धाः अर्द्धविशुद्धाः अविशुद्धाश्च, तत्र ये सर्वविशुद्धास्ते सम्यक्त्ववेदनीयव्यपदेशं लभन्ते येऽर्द्धविशुद्धास्ते सम्यग्मिथ्यात्ववेदनीयव्यपदेशं अविशुद्धा मिथ्यात्ववेदनीयव्यपदेशसतो न तयोर्बन्धस म्भवः, यदा तु तेषां सम्यक्त्वसम्यग्मिथ्यात्वपुद्गलानां खरूपतः स्थितिश्चिन्त्यते तदाऽन्तर्मुहर्मोनसप्ततिसागरोपमकोटीकोटीप्रमाणा वेदितव्या, सा च तावती यथा भवति तथा कर्मप्रकृतिटीकायां सङ्कमकरणे भावितेति ततो ऽवधार्य, मिथ्यात्ववेदनीयस्य जघन्या स्थितिरेकं सागरोपमं पल्योपमासळवेयभागोनमुत्कर्षतस्तस्योत्कृष्टस्थितेः सप्ततिसागरोपमकोटीकोटीप्रमाणत्वात्, सम्यग्मिथ्यात्ववेदनीयस्य जघन्यत उत्कषेतो वा अन्तर्मुहुरी वेदनापेक्षया. पुद्गलानां त्ववस्थानमुत्कर्षतः प्रागेवोक्तं, कषायद्वादशकस्यानन्तानुबन्धिचतुष्टयाप्रत्याख्यानचतुष्टयप्रत्याख्यानावरणचतुष्टयरूपस्य प्रत्येकं जघन्या स्थितिश्चत्वारः सागरोपमसप्तभागा पल्योपमासङ्ख्येयभागोनाः, उत्कर्षतस्तेषां स्थितेश्चत्वारिंशत्सागरोपमकोटीकोटीप्रमाणत्वात्, सज्वलनानां च जघन्या स्थितिमासद्वयादिप्रमाणा क्षपकस्य खबन्धचरमसमयेऽवसातव्या, स्त्रीवेदस्य जघन्या स्थितिर्यर्द्धसागरोपमस सप्तभागाः पल्योपमासङ्ख्येयभागोनाः कथमिति चेत्,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org