________________
प्रज्ञापनाया: मलय० वृत्ती.
२३कर्मबन्धपदे कमंस्थितिः सू. २९४
॥४७९॥
हर्त्तमायुषस्तु जघन्यतोऽन्तर्मुहूर्तमबाधा उत्कर्षतः पूर्वकोटीत्रिभागः, तत एवमबाधाकालं परिभाच्यावाधाविषया- |णि सूत्राणि स्वयं भावनीयानि, निद्रापञ्चकविषयं सूत्रमाह-'निहापंचगस्स णं भंते !' इत्यादि, जन जघन्यतः स्थितिः त्रयः सागरोपमस्य सप्तभागाः पल्योपमासङ्ख्येयभागोनाः, काऽत्र भावनेति चेत्, उच्यते, पञ्चानां ज्ञानावरणप्रकृतीनां चतसृणां दर्शनावरणप्रकृतीनां चक्षुर्दर्शनावरणादीनां सज्वलनलोभस्य पञ्चानामन्तरायप्रकृतीनां च जघन्या स्थितिरन्तर्मुहूर्त, सातवेदनीयस्य सकपायिकस्य द्वादश मुहूर्ता, इतरस तु द्वौ समयौ, प्रथमसमये बन्धो। द्वितीयसमये वेदनं तृतीयसमये त्वकर्मीभवनमिति, यशःकीयुचैर्गोत्रयोरष्टौ मुहूर्ताः, पुरुषवेदस्याष्टौ संवत्सराणि, सज्वलनक्रोधस्य द्वौ मासौ, सज्वलनमानस्यैको मासः, सज्वलनमायाया अर्द्धमासः, शेषाणां तु प्रकृतीनां या या खकीया उत्कृष्टा स्थितिस्तस्या उत्कृष्टायाः सप्सतिसागरोपमकोटीकोटीप्रमाणाया मिथ्यात्वस्थित्या भागे हते यलभ्यते तत्पल्योपमासङ्ख्येयभागहीनं जघन्यस्थितिपरिमाणं, तत्र निद्रापञ्चकस्योत्कृष्टा स्थितित्रिंशत्सागरोपमकोटीकोट्यः, तासां मिथ्यात्वस्थित्या सप्ततिसागरोपमकोटीकोटीप्रमाणया भागे हियमाणे 'शून्यं शून्येन पातयेदिति वचनात् लब्धास्त्रयः सागरोपमस्य सप्तभागाः, ते पल्योपमासङ्ख्येयभागहीनाः क्रियन्ते, ततो भवति यथोक्कं जघन्यस्थितिपरिमाणमिति, 'सायावेयणिजस्स ईरियावहियवंधगं पडुच अजहण्णमणुक्कोसेणं दो समया संपराइयबंधगं पडुच्च जहण्णेणं बारस मुहुत्ता' इति प्रागेव भावितं, असातावेदनीयस्य जघन्यतस्त्रयः सप्तभागाः पल्योपमासोय
॥४७९॥
Ca
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org