________________
उत्कर्षत स्त्रिंशत्सागरोपमकोटीको ट्यः, सा च मिथ्यादृष्टेरुत्कृष्टे सङ्केशे वर्त्तमानस्यावसातव्या, तदेवं नियता प्रागुक्तस्य प्रश्नोत्तरसिद्धिः, इदम पृष्टव्याकरणं त्रीणि वर्षसहस्राणि अबाधा अबाधोना कर्मस्थितिः कर्मदलिकनिषेक इति, किमर्थमिति चेत्, उच्यते, स्थितिद्वैविध्यप्रदर्शनार्थ, तथाहि - द्विविधा स्थितिः - कर्मरूपतावस्थानलक्षणा अनुभवयो ग्या च तत्र कर्मरूपताऽवस्थानलक्षणां स्थितिमधिकृत्येदमुक्तं त्रिंशत्सागरोपमकोटाकोटय इति, अनुभवयोग्या च वर्षसहस्रत्रयोना यतः, आह च - ' त्रीणि वर्षसहस्राणि अबाधा' किमुक्तं भवति ? - ज्ञानावरणीयं कर्म उत्कृष्टस्थितिकं बद्धं सत् बन्धसमयादारभ्य त्रीणि वर्षसहस्राणि यावत् न किञ्चिदपि खोदयतो जीवस्य बाधामुत्पादयति, तावत्कालमध्ये दलिकनिषेकस्याभावात्, तत ऊर्ध्वं हि दलिकनिषेकः, तथा चाह— अबाधोना - अबाधाकालपरिहीना अनुभवयोग्या कर्मस्थितिः, किमुक्तं भवति ? - कर्मनिषेकः, स चैवं - प्रथमस्थितौ प्रभूतो द्वितीयस्थितौ विशेषहीनः तृतीयस्थितौ विशेषहीनः एवं विशेषहीनो विशेषहीनश्च तावद् वक्तव्यो यावत्स्थितिचरमसमयः, एतावता च यदुतमग्रायणीयाख्ये द्वितीयपूर्वे कर्मप्रकृतिप्राभृते बन्धविधाने स्थितिबन्धाधिकारे - " चत्वार्यनुयोगद्वाराणि, तद्यथास्थितिबन्धस्थानप्ररूपणा अबाधा कण्डकप्ररूपणा उत्कृष्टनिषेकप्ररूपणा अल्पबहुत्वप्ररूपणा चे”ति, तत्रोत्कृष्टाऽवाधाकण्डक प्ररूपणा उत्कृष्टनिषेकप्ररूपणा च दर्शिता भवति, अबाधाकालपरिज्ञानोपायश्चायं - यस्य यावत्यः सागरोपमकोटीको व्यस्तस्य तावन्ति वर्षशतान्यबाधा, यस्य पुनः सागरोपमकोटीको ट्या मध्ये स्थितिस्तस्यायुर्वर्ज स्यान्तर्मु
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org