SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ दर्शनसमनन्तरमेव च जनोऽभ्युत्थानादि समाचरति तदादेयनाम, तद्विपरीतमनादेयं, यदुदयवशादुपपन्नमपि बुवाणो नोपादेयवचनो भवति नाप्युपक्रियमाणोऽपि जनस्तस्याभ्युत्थानादि समाचरति, तथा तपःशौर्यत्यागादिना समुपार्जितेन यशसा कीर्तनं-संशब्दनं यशःकीर्तिः, यद्वा यशः-सामान्येन ख्यातिः कीर्तिः-गुणोत्कीर्तनरूपा प्रशंसा अथवा सर्वदिग्गामिनी पराक्रमकृता वा सर्वजनोत्कीर्तनीयगुणता यशः एकदेशगामिनी पुण्यकृता वा कीर्तिः ते यदुदयवशाद्भवतस्तद्यशःकीर्त्तिनाम, यदुदयवशात् मध्यस्थस्यापि जनस्याप्रशस्यो भवति तदयशःकीर्त्तिनाम, तथा यदुदयवशाजन्तुशरीरेषु खखजात्यनुसारेणाङ्गप्रत्यङ्गानां प्रतिनियतस्थानवर्त्तिता भवति तन्निर्माणनाम, तच्च सूत्रधारकल्पं, तदभावे हि तद्भुतककल्पैरङ्गोपाङ्गनामादिभिर्निवर्तितानामपि शिरउरउदरादीनां स्थानवृत्तेरनियमः स्यात् , तथा यदुदयवशात् अष्टमहाप्रातिहार्यप्रमुखाश्चतुस्त्रिंशदतिशयाः प्रादुष्ष्यन्ति तत्तीर्थकरनाम, तदेवमुक्ताः नामकर्मणो द्विचत्वारिंशद्भेदाः, सम्प्रत्येतेषामेव गत्यादीनामवान्तरभेदप्रतिपादनार्थमाह-गइनामे णं भंते ! कम्मे कइविहे पं०' इत्यादि, समस्तमपि निगदसिद्धम् , उक्ता नामकर्मणो भेदाः, सम्प्रति गोत्रकर्मभेदानाह-'गोए णं भंते !' इत्यादि, यदुदयवशादुत्तमजातिकुलवलतपोरूपैश्चर्यश्रुतसत्काराभ्युत्थानासनप्रदानाअलिप्रग्रहादिसम्भवस्तदुचैर्गोत्रं, यदुदयवशात् पुनर्ज्ञानादिसम्पन्नोऽपि निन्दां लभते हीनजात्यादिसम्भवं च तत् नीचैर्गोत्रं, उक्तौ गोत्रदौ, सम्प्रति तयोरेव भेदानाह-'उच्चगोए णं भंते ! कम्मे कइविहे पं.' इत्यादि सुगम, सम्प्रति अन्तरायभेदानाह । Jain Education International For Personal & Private Use Only ma.jainelibrary.org|
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy