________________
प्रज्ञापनायाः मल- यवृत्ती.
२३कर्मप्रकृतिपदं
॥४७४॥
एतच्च प्रागेवोक्तमिति, तद्विपरीतमपर्याप्तकनाम, तथा यदुदयात् जीवं जीवं प्रति भिन्नं शरीरं तत्प्रत्येकनाम, यदु- दयवशात् पुनरनन्तानां जीवानामेकं शरीरं भवति तत्साधारणनाम, तथा यदुदयवशात् शरीरावयवानां शिरोऽस्थि- दन्तानां स्थिरता भवति तत्स्थिरनाम, तद्विपरीतमस्थिरनाम, यदुदयवशाजिहादीनामवयवानामस्थिरता भवति तदस्थिरनाम, तथा यदुदयान्नाभेरुपरितना अवयवाः शुभा जायन्ते तत् शुभनाम, यदुदयवशात् नाभरधस्तना पादादयोऽवयवा अशुभा भवन्ति तदशुभनाम, तथाहि-शिरसा स्पृष्टस्तुष्यति पादेन तु रुष्यति, कामिन्या पादेनापि स्पृष्टः तोषमुपयाति ततो व्यभिचार इति चेत्, न, तस्य परितोषस्य मोहनीयनिवन्धनत्वात् , वस्तुस्थितिश्चेह चिन्त्यते इत्यदोषः, तथा यदुदयवशादनुपकृदपि सर्वस्य मनःप्रियो भवति तत्सुभगनाम, तद्विपरीतं दुर्भगनाम, यदुदयादुपकारकृदपि जनस्य द्वेष्यो भवति, उक्तं च-"अणुवकएवि बहूणं जोहु पिओ तस्स सुभगनामुदओ। उवगारकारगोवि हु न रुच्चए दुब्भगस्सुदए ॥१॥ सुभगुदएवि हु कोई किंची आसज दुब्भगो जइवि । जायइ तहोसाओ जहा अभवाण तित्थयरो ॥२॥" [ अनुपकृतेऽपि बहूनां यः प्रियस्तस्य सुभगनाम्न उदयः । उपकारकारकोऽपि न रोचते दौर्भाग्यस्योदये ॥१॥ सुभगस्योदयेऽपि कश्चित्कञ्चिदासाद्य दुर्भगो यद्यपि । जायते तदोषात् यथाऽभव्यानां | तीर्थकरः॥२॥] तथा यदुदयवशात् जीवस्य खरः श्रोतृणां प्रीतिहेतुरुपजायते तत्सुखरनाम, तद्विपरीत दुःखरनाम यदुदयात् स्वरः श्रोतृणामप्रीतये भवति, तथा यदुदयवशात् यच्चेष्टते भाषते वा तत्सर्व लोकः प्रमाणीकरोति
टटटटाseeeeeeeeee
॥४७४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org